2023-11-02 10:13:18 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

५९८
 
न्यायकोशः ।
 
बहिरिन्द्रियम्—
<बहिरिन्द्रियम्>
( इन्द्रियम् ) [ क ] मनोभिन्नमिन्द्रियम् ( राम० १

साधर्म्य० पृ० ५८) । यथा घ्राणम् बहिरिन्द्रियम् । बहिरिन्द्रियाणि

पञ्च । घ्राणम् रसनम् चक्षुः त्वक् श्रोत्रम् ( गौ० १११ १२ ) इति ।

[ख] शब्दादिबाह्यविषयग्राहकमिन्द्रियम् । बहिरिन्द्रियलक्षणं च

घ्राणाद्यन्यान्यत्वम् (गौ० वृ० १ । १ । १२ ) । अत्रेदमवधेयम् । प्राचीन-

नैयायिकमते वायोरप्रत्यक्षत्वेन बहिरिन्द्रियजन्यद्रव्य प्रत्यक्ष रूपं कारणम्

'इति कार्यकारणभावः स्वीकृतः । तेन वायौ रूपाभावेन न तत्प्रत्यक्षम्

इति । नवीननैयायिकमते तु वायोरपि त्वाचप्रत्यक्षविषयत्वेन बहिरिन्द्रिय-

जन्यद्रव्यप्रत्यक्षमात्रे रूपं कारणम् इति न कार्यकारणभावः । किंतु

तादृशप्रत्यक्ष आत्मावृत्तिशब्दभिन्न विशेषगुणवत्त्वं प्रयोजकम् इति प्रयो-

ज्यप्रयोजकभावः स्वीकृतः । तेन वायोरपि त्वाचप्रत्यक्षत्वमुपपद्यते
 

( भा० प० श्लो० ५७ टी० मु० १ पृ० ११३ ) ।
 

 
<
बहिद्रव्यम् - >
आत्मान्यद्रव्यम् ( नील० २ पृ० २६) । यथा पृथिवी

बहिर्द्रव्यम् । अत्र बहिष्वं चात्मान्यत्वम् । मानसलौकिक प्रत्यक्षविषया-

न्यत्वं वा ( म० प्र० २ पृ० २९ ) ।
 

 
<
बहिष्पवमानम्>
उपास्मै गायता नरः । विद्युतत्या रूचा । पवमानस्य ते

कवे । इति सूक्तत्रयगानसाध्यं स्तोत्रं बहिष्पवमानमित्युच्यते ( जै०
 

न्या० अ० १ पा० ४ अधि० ३ ) ।
 

 
<
बहुत्वम्>
( संख्या ) १ प्रतिनियतैकत्वानालम्बनापेक्षा बुद्धिजनितत्रित्वादि

संख्या ( वै० उ० ) । यथा बहवो ब्राह्मणाः सन्ति इत्यादौ बहुत्वम् ।

अत्रेदं बोध्यम् । सेनावनादौ च शताद्यभिव्यक्तिस्तु न भवति । तादृश-

व्यञ्जकाभावात् इति (वै० उ०७१२१८ पृ० ३२३ ) । २ उपस्कार-

मते तु त्रिवादिसमानाधिकरणं संख्यान्तरमेव बहुत्वम् । यथा भवति

हि शतं वा सहस्रं वा चूतफलान्यानयामि इति प्रश्ने बहवस्तावदा-

नीयन्ताम् किं विशेष जिज्ञासया इत्युत्तरम् । इदं च त्रित्वादिजनकापे-

क्षाबुद्ध्या जन्यते । अत्रेदं बोध्यम् । द्वित्वसहितापेक्षाबुद्ध्या त्रित्वमुत्पद्यते ।

त्रित्वसहितापेक्षाबुद्ध्या चतुष्ट्वमुत्पद्यते । एवमुत्तरोत्तरम् । बहुवोत्पत्तौ