2023-11-02 10:11:32 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
ब.
 
<बद्धः>
( पारदः ) अक्षतश्च लघुद्रावी तेजस्वी निर्मल गुरुः । स्फोटनं

पुनरावृत्तौ बद्धसूतस्य लक्षणम् ॥ ( सर्व० सं० पृ० २०५ रसेश्व० ) ।
वध -

 
<वध>
( धातुः ) १ संयमनम् । यथा बाधयति बघते इत्यादौ धात्वर्थः ।

२ निन्दा । यथा बीभत्सत इत्यादौ । ३ प्रतिबन्धः । यथा प्रतिबध्यत्वम्

इत्यादौ ।
 
a
 
५९७
 
-
 
बन्ध –

 
<बन्ध>
( धातुः ) १ संयमनम् । यथा संसारपाशः पुरुषं बध्नाति इत्यादौ

धात्वर्थः । २ निरोधनम् । यथा अनुमिति प्रतिबन्धकत्वम् इत्यादौ ।

 
<
बन्धः>
१ आत्मनः शरीरादिसंबन्धः । २ मिथ्यादर्शनाविरतिप्रमादकषाय-

वशाद्योगवशाच्चात्मा सूक्ष्मैकक्षेत्रावगाहिनामनन्तप्रदेशानां पुद्गलानां कर्म-

बन्धयोग्यानामादानमुपश्लेषणं यत्करोति स बन्धः । तदुक्तम् सकषाय-

स्वाज्जीवः कर्मभावयोग्यान्पुद्गलानादत्ते स बन्ध: ( त० सू० ८/२ )

( सर्व० सं० पृ० ७५ आई० ) । ३ अन्योन्यं प्रदेशानुप्रवेशे सत्य-

विभागेनावस्थानं बन्धः ( सर्व० पृ० ८१ आई० ) । ४ पारतत्र्यं

बन्ध: ( सर्व० सं० पृ० २४९ अक्षपा० ) । ५ अविद्यास्तमयो मोक्षः

सा च बन्ध उदाहृतः ( सर्व० सं० पृ० ४०२ शां० ) ।

 
<
बन्धकम्>
आधि: ( गहाण इति प्र० ) ।
 

 
-
 

 
<
बलम् - >
१ साधनसामग्री । यथा गमकतौपयिकरूपसाकल्यं हि बलम्

इत्यादौ (चि० २ बाध० पृ० १०६) । तच्च अनुमितौ व्याप्ति-

पक्षधर्मतात्मकं बलम् ( चि० २ सत्प्र० पृ० ९४ ) (ग० बाध० ) ।

२ शरीरादिशक्तिविशेषः इति काव्यज्ञा वदन्ति । ३ सैन्यम् इति पौरा-

णिका आहुः । ४ गुरुभक्तिः प्रसादश्च मतेर्द्वन्द्वजयस्तथा । धर्मश्चै-

वाप्रमादश्च बलं पञ्चविधं स्मृतम् ॥ ( सर्व० सं० पृ० १६४ नकुली० ) ।

५ रोधशक्तिः ( सर्व० सं० पृ० १८८ शै० ) ।
 

 
तत्स्थं
 

 
<
बहिः
 
-
 
>
समभिव्याहृत
पदार्थतावच्छेदका नधिकरण तत्संनिहित देशः

वस्तु च । यथा ग्रामादूहित्यिादौ । अत्र बहिर्योोंगे पञ्चमीसमासविधान-

सामर्थ्यात् तद्योगे पञ्चमी । बहिष्ट्वं च नियतमवध्याकाङ्क्षम् इति स

पञ्चम्यर्थ: ( ल० म० सुबर्थ० पृ० ११२) ।