न्यायकोशः /650
This page has not been fully proofread.
न्यायकोशः ।
श्लो०
शब्दव्याख्यानावसरे संपादितम् । [ ख ] वैयाकरणादयस्तु यदुद्देशेन
श्रुतेर्लोकतो वा प्रवृत्तिरवगता तत् इत्याहुः ( वै० भू० ८० धात्व०
पृ० ७)। न्यायमते फलं द्विविधम् । मुख्यम् गौणं च । तत्राद्यं
सुखदुःखोपभोगः। लक्षणं च सुखदुःखान्यतरसाक्षात्कारत्वम् (गौ०
वृ० १।१।२० ) । अथवा तदीयमुख्यफलत्वं तु यत्कामनात्वेन तदीय -
फलं प्रति जनकता तत्त्वम् । यथा स्वर्गादिकामना स्वप्रयोज्यदर्शादि-
संबन्धेन दर्शादिफलस्वर्गादिकं प्रति जनिका ( मू० म० मङ्गल० पृ०२२ ) ।
अत्र वेदान्तिन आहुः । अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् ।
भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां कचित् ॥ ( गीता० अ० १८
०१२) इति । द्वितीयं शरीरादिकं सर्वमेव ( गौ० वृ० १ । १९/२०)
( न्या० वा० १ । १ ।२० पृ० ८६ ) । अत्रोच्यते फलं प्रवृत्तिसाध्यं
स्यात् तच्च देहसुखादिकम् ( ता० २० श्लो० ३२ ) इति । २
• धात्वीयवृत्तिग्रहप्रकारताश्रयः । यथा क्रियाजन्यफलशालित्वं कर्मत्वम्
इत्यत्र ग्रामं गच्छतीत्यादावुत्तरदेशसंयोगः फलम् । अत्र सकर्मकधातूनां
फलावच्छिन्नव्यापारे शक्तिः इत्यभिप्रायेणोक्तमिदम् इति ज्ञेयम् । कर्मा-
ख्यातसमभिव्याहारस्थले तु शाब्दबोधे फलस्य द्विधाभाने चेष्टापत्तिरेव
शरणम् इति भावः । अत्र शाब्दिका आहुः । यस्यार्थस्य प्रसिद्धयर्थ-
मारभ्यन्ते पचादयः । तत्प्रधानं फलं तेषां न लाभादिः प्रयोजनम् ॥
( भर्तृ० ) इति । तेन पाकादिजन्यं भोजनम् यागादिजन्यं च पुण्य
फलम् न वेतनादिरूपं फलम् । तेन सूदकस्य ऋत्विगादेर्वा न धात्वर्थ-
जन्यफलभागित्वम् इति । केचिच्छाब्दिकास्तु कर्तृप्रत्ययसमभिव्याहारे
धात्वर्थजन्यत्वे सति धात्वर्थनिष्ठविशेष्यतानिरूपितप्रकारताश्रयः फलम्
इति वदन्ति । अत्राधिकं तु धातुशब्दव्याख्यानावसरे संपादितम् ।
५९६
फलोपधायकत्वम्-
फलोपहितत्वम्-
फलनिष्पादकत्वम् ।