2023-10-18 06:33:22 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
११
 
<अद्यतन: ~~ >
( काल: ) [ क ] अतीतरात्रेरन्त्ययामेनागामिन्या रात्रे: पूर्व-

यामेन च सहितः कालः ।
 

[ ख ] अतीताया रात्रेः पश्चार्धेनागामिन्या पूर्वार्धेन च सहितो दिवस

इति शाब्दिका वदन्ति ( ल० म० ) ।
 

 
<
अद्रव्यद्रव्यत्वम्>
असमवेतद्रव्यत्वम् ( ग० दशा० ) । यथा आका-

शादेर्निरवयवद्रव्यस्य कुत्रापि समवायेनावर्तमानस्य अद्रव्यद्रव्यत्यम् ।

 
<
अद्वैतम्>
द्विधा इतं द्वीतम् । तस्य भावो द्वैतम् । द्विधेतं द्वीतमित्याहुस्त-

द्भावो द्वैतमुच्यते ( बृ० वा० ४ । ३ । १८०७ ) । न विद्यते द्वैतं द्विधा -

भावो यत्र तत् ( सिद्धान्तवि० श्लो० १०)।
 

 
<
अधः - >
( दिक् ) [क] गुरुत्वासमवायिकारणकक्रियाजन्यसंयोगाश्र[^१]यो

दिग्विशेषः ( वै० उ० २।२।१०) ।
 

[ख ] पतनजन्यसंयोगाश्रयः (वै० वि० २२।१० ) । यथा पर्ण-

मंत्रः पततीत्यादौ ।
 

 
[^१] गुरुत्वमेव असमवायिकारणं यस्यास्तया क्रियया जन्यो यः संयोगस्तदाश्रय
इति विग्रहः ।
 
<
अधर्म:>
( गुण:) [ क ] शरीरादिजनकात्मविशेषगुणः (त० मा० गु०

३६ ) । अयं च जीवमात्रसमवेतो भोगप्रायश्चित्तादिनाश्यश्चेति विज्ञेयम्

( त ० कौ० ) । अधर्मोन प्रत्यक्षः किं त्वनुमानगम्यः। तच्चानुमानं

देवदत्तस्य शरीरादिकं देवदत्तविशेषगुणजन्यं कार्यत्वे सति देवदत्तस्य भो-

गहेतुत्वात् देवदत्तप्रयत्नजन्यवस्तुवत् इति ज्ञेयम् (त० मा० गु० ३.६) ।

[ ख ] नरकदुःखादिदुः खानां साधनम् (मु० ) ।
 

 

[ ग ] निषिद्धकर्मजन्यः ( त० सं० ४ ) । निषिद्धकर्म चात्रानिष्टसा-

धनत्वेन वेदबोधितं कर्म ( वाक्य ० ) । तच्च सुरापानादि ।
 

[ घ ] दुःखासाधारणं कारणम् ( प्र० प्र० ) । अधर्म आत्मगुणः

कर्तुरहितप्रत्यवायहेतुः अतीन्द्रियः सम्यग्ज्ञानविरोधी ।
 

तस्य तु साधनानि शास्त्रप्रतिषिद्धानि धर्मसाधनविपरीतानि हिंसानृत-
१ गुरुत्वमेव असमवायिकारणं यस्यास्तया क्रियया जन्यो यः संयोगस्तदाश्रय
इति विग्रहः ।