न्यायकोशः /649
This page has not been fully proofread.
न्यायकोशः ।
प्रोक्षणी-संस्कृतं जलम् । यथा प्रोक्षणीभिरुद्वेजिताः स्मः ( जै० न्या०
अ० १ पा० ४ अधि० ९ ) ।
प्रोत्साहनम् – हर्षानुकूलव्यापारः । यथा होत्रे प्रतिगृणातीत्यादौ गृणाते-
रर्थः प्रोत्साहनम् । अत्र धात्वर्थप्रोत्साहनैकदेशे हर्षे होत्रादेरन्वयः ।
तृनिष्ठहर्षानुकूलव्यापारवान् इत्याकारकस्तत्र बोध: ( श० प्र०
कार० ४ श्लो० ६९ टी० पृ० ९९ ) ।
प्लीहा - वामपार्श्वस्थितो मांसविशेषः ( संगीतरत्नाकरे पृ० १९ ) ।
फक्किका–१ असद्व्यवहारः । २ तत्त्वनिर्णयार्थ पूर्वपक्षादिबोधकं वाक्यम् ।
यथा फणिभाषितभाष्यफक्किका (नैष० ) इत्यादौ (वाच० ) । ३कर्म-
कलापादिबोधको वाक्यरचनारूपः शब्दः इति याज्ञिका वदन्ति ।
फळ्– (धातुः ) १ भेदनम् । यथा फलति काष्ठम् । मिनत्तीत्यर्थः । २ आ-
रम्भः । यथा फलितः यज्ञः । आरब्ध इत्यर्थः । ३ निष्पत्तिः । यथा फलितः
पट इत्यादौ । ४ गतिः । यथा फलयति प्रामम् इत्यादौ ( वाच ० ) ।
फलचमसः - न्यग्रोधमुकुलरूपस्य फलस्य पिष्टं चम्यते यत्र स फलचमसः
( जै० न्या० अ० ३ पा० ६ अधि० १३ ) ।
फलम् - १ [ क ] प्रवृत्तिदोषजनितोर्थः फलम् ( गौ० १११।२०) ।
सुखदुःखसंवेदनं फलम् । सुखविपाकं कर्म दुःखविपाकं च । तत्पुन-
र्देहेन्द्रियविषयबुद्धिषु सतीषु भवतीति सह देहादिभिः फलमभिप्रेतम्
( वात्स्या० ११११२० ) । फलसामान्यलक्षणं तु जन्यत्वम् ( गौ०
वृ० १११।२० ) । यथा घटजन्यो घटध्वंसोपि घटस्य फलम् । क्वचित्
प्रवृत्त्युद्देश्यत्वम् ( दि० १ मङ्ग० पृ० ८) । यथा नव्यमते मङ्गलस्य
विध्वंस एव फलम् (मु० १ मङ्गल० पृ० ८) । कचिच स्वकर्तव्य-
ताप्रयोजकेच्छाविषयत्वम् ( मू० म० १) । यथा स्वर्गार्थयाग कर्तव्यता-
प्रयोजकस्वर्गेच्छाविषयत्वेन स्वर्गो यागफलं भवति । अधिकं तु प्रयोजन-