न्यायकोशः /647
This page has not been fully proofread.
न्यायकोशः ।
धेनुकर्मक चैत्रसंप्रदानकदानत्वावच्छिन्नधर्मिका या युष्मरकर्तव्यत्वप्रका-
रिका चैत्रेच्छा तद्विशेष्यीभूतस्य दानस्यानुकूलकृतिमांस्त्वम् इत्याकारको
बोध:
[: ( श० प्र० श्लो० १०० टी० पृ० १७६ ) । [घ ] शाब्दि-
कानां मते प्राप्तीच्छा विधिरूपा प्रार्थना । [ ङ ] स्वाभिलषित-
वस्तुदानादौ स्वीयेच्छाबोधनम् । यथा भोजनं लभेयेत्यादौ लिङर्थः
(वै०
१० सा० द० ) । ३ आलंकारिकास्तु गर्भाङ्गविशेषः प्रार्थना इत्याहुः ।
अत्र अभूताहरणं मार्गो रूपोदाहरणे क्रमः । संग्रहश्चानुमानं च प्रार्थना
क्षिप्तिरेव च ॥ त्रोटकाधिबलोद्वेगा गर्भे स्युर्विद्रवस्तथा । इति गर्भाङ्गान्यु-
द्दिश्य रतिहर्षोत्सवानां तु प्रार्थनं प्रार्थना भवेत् इति प्रार्थना लक्षिता
( सा० द० परि० ६ श्लो० ३६४ - ३७२) । ४ मुद्रा विशेष : प्रार्थना
इति तान्त्रिका आहुः । तदुक्तम् प्रसृताङ्गुलिकौ हस्तौ मिथः श्लिष्टौं च
संमुखे । कुर्यात्स्वहृदये सेयं मुद्रा स्यात्प्रार्थनाभिधा ॥ इति ( तन्त्रसा० )
( वाच० }}
-
प्रावृतिः - अशुचिः मलः । प्रावृणोति प्रकर्षेणाच्छादयत्यात्मनो दृक्क्क्रये
इति प्रावृतिः ( सर्व० सं० पृ० १८८ शै० ) ।
-
प्राशस्त्यम् – १ विधेयतावच्छेदकसामानाधिकरण्येन बलवदनिष्टाननुबन्धित्वे
सति क्रियाजन्यसुखापेक्षयाधिकेष्टजनकत्वम् । यथा मीमांसकमते विध्यर्थ-
वादेन लक्षणया बोधितं प्राशस्यम् शब्दभावनायामितिकर्तव्यतात्वेना-
न्वेति । निषेधार्थवादेषु (निन्दार्थवादेषु ) स्वप्राशस्त्यं लक्ष्यते इति ।
तत्र विध्यर्थवादः प्रजापतिरात्मनो वपामुदखिदत् इत्यादिः (लौ० भा०
टी० पृ० ८ ) । अत्राधिकं च अर्थवादशब्दव्याख्यानावसरे संपादितम्।
तत्तत्र दृश्यम् । २ शीघ्रफलदातृत्वम् इति वैयाकरणा आहुः (ल० म० ) ।
३ प्रशंसनीयत्वम् इत्यन्य आहुः । ४ क्षेमत्वम् (वाच० ) । यथा न
भद्रं भद्रमिति श्रूयात् पुण्यं प्रशस्तमित्येव ब्रूयात् ( आपस्त० धर्मसू०
१।११।३१।१३-१४ ) इत्यादौ । ५ श्रेष्ठत्वम् इति काव्यज्ञा आहुः ।
प्रीणनम् - १ प्रीत्यनुकूलव्यापारः । यथा हरिं प्रीणयतीत्यादौ प्रीधातोरर्थः ।
२ इच्छा । यथा प्रीयत इत्यादौ (वाच० ) ।
७५ न्या० को०