न्यायकोशः /646
This page has been fully proofread once and needs a second look.
[क] दुरितनाशकत्वेन विहितः साधनविशेषः । यथा गोवधे
प्रायश्चित्तमित्यादौ ( श० प्र० श्लो० ९३ टी० पृ० १३४ ) । अत्र
निमित्तात्कर्मयोगे (वार्तिक० ) इत्यनेन सप्तमी ज्ञेया । तथा च जन्यत्वं
सप्तम्यर्थः । तस्य प्रायश्चित्तपदार्थैकदेशे दुरितेन्वयः । जन्यत्वे च
गोवधादेरन्वयः । प्रायश्चित्तशब्दस्य अस्मृतौ व्युत्पत्तिः प्रायो
नाम तपः प्रोक्तं चित्तं निश्चय उच्यते । तपो निश्चयसंयुक्तं प्रायश्चि-
तमिति स्मृतम् ॥ इति ( वाच० ) । [ ख पापक्षय मात्रसाधनत्वेन
..
विधिबोधितः कर्मविशेषः । अत्र मात्रपदात् तुला- पुरुषाश्वमेधादि-
व्यावृत्तिः । तत्र पापविशेषस्यैव कामाकामकृतस्य शक्तिविशेषस्य ततो
नाशः (मतभेदेन ) इति विज्ञेयम् ( वाच ० ) ।
<प्रारब्धम्
( कर्म ) [ क] तत्तच्छरीरभोगजनकं हि यत्कर्म तत् । यथा
अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् । नाभुक्तं क्षीयते कर्म कल्प-
कोटिशतैरपि ॥ इत्यादौ कर्म प्रारब्धमस्ति (मु० गु० पृ० २३५ ) ।
अत्र व्युत्पत्तिः प्रकृष्टमारब्धं स्वकार्ये येन इति (वाच० ) । जननाय कृता-
•
रम्भम् इति यावत् । ख देहाद्यारम्भकः अदृष्टविशेषः । तस्य च
भोगेनैव क्षयः । न तु ज्ञानेन । प्रारब्धातिरिक्तं कर्म तु ज्ञानेन नश्यति
इति विवेकः । अत्रोक्तम् यथैधांसि समिद्धोग्निर्भस्मसात्कुरुतेर्जुन / ज्ञानाग्निः
•
सर्वकर्माणि भस्मसात् कुरुते तथा ॥ (गीता० अ० ४ श्लो० ३७) इति ।
<प्रार्थनम्
<प्रार्थना
---
१ उत्कर्ष प्रतिपादनेच्छा ( कु० ५ टी० ) । यथा देवदत्त
•
ईश्वरं प्रार्थयतीत्यादौ धात्वर्थः । २ [ क ] दानाय प्रेरणम् । प्रेरणा
प्रवर्तना । सा च दीयताम् इत्याद्यभिलापरूपा। यथा नृपमर्थ प्रार्थयते
याचते भिक्षते इत्यादौ धात्वर्थः । अत्र नृपनिष्ठं यदर्थस्य दानं तत्प्रेरणा-
बान् इत्यर्थ: ( श० प्र० लो० ७३ टी० पृ० ११२ ) । [ख]
याच्या । यथा बलिं याचते वसुधाम् इत्यादौ । [ग] स्वसंप्रदानक-
•
दानधर्मिक संबोध्य कर्तव्यत्वप्रकारकवच्छिाविषयत्वम् । यथा धेनुं दद्या
स्त्वमस्मभ्यमित्यादौ लिडर्थ: प्रार्थना । अत्र चैत्रकर्तृकैतादृश वाक्यस्थ