न्यायकोशः /645
This page has not been fully proofread.
न्यायकोशः ।
५९१
-
प्राप्यप्रकाशकारित्वम् - १ संनिकृष्टग्राहित्वम् (राम० ११० ७९) । यथा
बाह्येन्द्रियाणाम् । २ विषयदेशं गत्वा विषयप्रकाशकत्वम् । यथा न्याय-
मते चक्षुरिन्द्रियस्यैव प्राप्यप्रकाशकारित्वम् । गोलकमेव चक्षुः न तैजसम्
इत्युच्छृङ्खलमते तु चक्षुरप्राप्यप्रकाशकार्येव भवति । यदि प्राप्यप्रकाशकारि
स्यात्तदा रसनादिवदधिष्ठानसंबद्धं गृह्णीयात् । न चैवम् । गोलका-
संबद्धग्रहणात् इत्यादि (दि० १ तेजो० पृ० ७९-८०)। माया-
वादिमते तु श्रोत्रस्यापि प्राप्यप्रकाशकारित्वम् (वाच० ) इति ।
प्राप्यम् - १ (कर्म) क्रियाप्रयोज्यासाधारणधर्मप्रकारकप्रतीतिविषयताना-
श्रयत्वे सति फलाश्रयः ( क्रियाजन्यफलवत्त्वेनोद्देश्य: ) ( वाच० ) ।
यथा ग्रामं गच्छतीत्यादौ ग्रामः प्राप्यं कर्म । अत्र ग्रामादेः कर्तृसाधारण-
संयोगरूपफलवत्वेपि क्रियाप्रयोज्यश्रमादिरूपासाधारणविशेषफलस्याना-
धारत्वेन तादृशफलप्रकारकबोधाविषयत्वात् प्राप्यत्वम् । निर्वर्त्यविकार्य-
योस्तु क्रियाजन्योत्पत्त्यादिफलस्य कर्ममात्रनिष्ठतया असाधारण्येन तद्वत्त्वा-
नातिप्रसङ्ग इति बोध्यम् ( वाच० ) । क्रियाप्रयोज्येत्यादिलक्षणे
निर्वदावतिव्याप्तिवारणाय सत्यन्तम् । तत्रापि विषयतानाश्रयत्वस्य
धर्मप्रकारकप्रतीतिविषयतानाश्रयत्वस्य असाधारणधर्मघटितस्य वा तस्य
घटं जानातीत्यादौ घटादावसंभव इति प्रयोज्यान्तं धर्मविशेषणम् । तत्रैव
क्रियाप्रयोज्यधर्मसंयोगप्रतीतिविषये प्रामादिकर्मण्यव्याप्तिनिरासायासाधा-
रणेति । क्रियाजन्यफलानाश्रयेतिप्रसक्तिनिरासाय विशेष्यम् । प्राप्यकर्म-
लक्षणमुक्तं वाक्यपदीये हरिणा क्रियाकृतविशेषाणां सिद्धिर्यत्र न विद्यते ।
दर्शनादनुमानाद्वा तत्प्राप्यमिति कथ्यते ॥ इति (ग० व्यु० का० २
पृ० ६५ ) । २ गम्यम् । ३ लभ्यं चेति काव्यज्ञा आहुः ।
ग्राभाकरः – मीमांसक विशेष प्रभाकरमतानुयायी तन्मतज्ञश्च । अत्र व्युत्पत्तिः
प्रभाकरस्य इदं तन्मतं वेत्ति वा ( अणू ) इति । प्रभाकरस्य गुरु
इत्यपरनाम ।
प्रामाण्यम् -१ प्रमात्वम् । २ प्रमाणत्वम् । अत्रयः स्वतःप्रामाण्यादिप्रप-
वस्तु प्रमात्वशब्दे संपादितः । तत्र द्रष्टव्यः ।