2023-10-30 08:25:25 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

५९०
 
न्यायकोशः ।
 
<प्रादेशिकत्वम्>
दैशिकाव्याप्यवृत्तित्वम् (मु० गु० ) ( दि० गु० पृ०

१९५ ) । यथा विभुविशेषगुणानाम् संयोगविभागयोश्च प्रादेशिकत्वम्

( भा० प० श्लो० १०० ) । विभुविशेषगुणाश्च शब्द बुद्धिः सुखम्

दुःखम् इच्छा द्वेषः प्रयत्नः धर्मः अधर्मः भावनाख्यसंस्कारश्च इति ।

 
<
प्रापणम्- >
नयनम् ( ग० व्यु० का० २ पृ० ४५ ) ।

 
<
प्राप्तिः - >
१ संबन्धः । यथा अप्राप्तयोस्तु या प्राप्तिः सैव संयोग ईरितः

( भा०प० गु० श्लो० ११६ ) इत्यादौ । २ लाभः । स च स्वत्वाव-

च्छिन्नो व्यापारः । यथा धनं प्राप्नोतीत्यादौ धात्वर्थः ( श० प्र०

श्लो० ० ७२ टी० पृ० ९७) । ३ प्रापणम् । ४ संहतिः । ५ अणिमाद्यष्ट-

विधैश्वर्यान्तर्गतैश्वर्यविशेषः । तदुक्तम् अणिमा महिमा चैव गरिमा लघिमा

तथा । प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्टभूतयः ॥ इति । ६ सुखान-

विशेषः इत्यालंकारिका आहुः । अत्रोच्यते संप्रधारणमर्थानां युक्तिः
 

प्राप्तिः सुखागमः ( सा० द० परि० ६ श्लो० ३४४ ) इति ।

७ जरासंधसुता । ८ कंसभायो ( भा० स० १३ ) ( हरिवंश० ९१) ।

९ कामभार्या इति पौराणिका आहुः (भा० आ० अ० ३६) (वाच० ) ।

 
<
प्राप्तिसमः - >
( जातिः ) [क] प्राप्य साध्यमप्राप्य वा हेतोः प्रायोवि
प्त्या[^१]वि
शिष्टत्वात् असाधकत्वाच्च प्राप्तिसमः ( गौ० ५१११७ ) । हेतुः प्राप्य वा

साध्यं साधयेदप्राप्य वा । न तावत्प्राप्य । प्राध्यामविशिष्टत्वादसाधकः ।

द्वयोर्विद्यमानयोः प्राप्तौ सत्यां किं कस्य साधकं साध्यं वा । प्राप्त्या प्रत्य

वस्थानं प्राप्तिसमः ( वात्स्या० ५१११७ ) । प्रतिकूलतर्क देशनाभासोयम्

( गौ० वृ० ५।१।७) । [ख ] प्राप्त्या अविशेषाद निष्टापादनेन प्रत्य-

वस्थानम् ( गौ० वृ० ५ । १ ।७ ) । अत्र प्राप्तिश्च साध्यहेत्वोः सामाना--

धिकरण्यम् (नील० पृ० ४४) । यथा आत्मा सक्रियः क्रिया हेतुगुण-

वत्त्वादित्यादौ क्रियाहेतुगुणवत्वेनैव किमिति क्रियावस्वं साध्यते । किमिति
 
(
 
'नील०
 

क्रियावत्त्वेन तादृशगुणवत्त्वं न साध्यते । उभयोरविशेषादिति

पृ० ४४ ) । ग ] प्राप्य साध्यं साधयति हेतुश्चेत्प्राप्तिकर्मणः । साध्यस्य

पूर्वसिद्धिः स्यादिति प्राप्तिसमोदयः ॥ ( ता० ० २ श्लो० १११ ) ।
 

 
[^१]
अविशिष्टत्वादिति पदच्छेदः ।