न्यायकोशः /642
This page has been fully proofread once and needs a second look.
न्यायकोशः ।
वाच्यम् इति वेदान्तिन आहुः । अत्र प्रमाणानि ॐ अत एव प्राणः
ॐ
(ब्रह्मसू० १ । १ । २३) । तद्वै त्वं प्राणो अभवः महाभोगः प्रजापते-
र्भुजः करिष्यमाणः यद्देवान् प्राणयो नव इति । श्रीश्च ते लक्ष्मीश्च
पढ्यौ अहोरात्रे पार्श्वे (श्रुतिः ) इति च ( मध्यभा० १ । १ । २३ ) ।
तथा ॐ प्राणस्तथानुगमात् ॐ ( ब्रह्मसू० १११।२८ ) । तं देवाः प्राण-
यन्त स एषोसुः स एष प्राणः स एष भूतिश्च प्राण ऋच इत्येवं विद्यात्
तदयं प्राणोधितिष्ठति ( श्रुतिः ) इति ( मध्वभा० ११११२८) ।
प्राणस्य प्राणमुत चक्षुषश्चक्षुः श्रोत्रस्य श्रोत्रमन्नस्यानं मनसो मनः
( श्रुतिः ) इति च ( मध्वमा० १ । ४।१३) । ४ दशगुरुवर्णः प्राणः
षट् प्राणा: स्याद्विनाडिका तासाम् । षष्ट्या घटी घटीनां षष्ट्याहोरात्र
उक्तश्च ॥ ( मिताक्षरा २।१०२) । अहोरात्रशब्दे दृश्यम् ।
1122
<प्राणायामः
( योगाङ्गम् ) [ क ] तस्मिन् सति श्वासप्रश्वासयोर्गति-
विच्छेदः (पात० सू० पाद० २ सू० ४९ ) । तस्मिन् आसनस्थैर्ये
•
सति इत्यर्थः ( गौ० वृ० ४।१११ ) । [ख] प्राणवायोर्गतिविच्छेद-
कारकव्यापारविशेषः । अत्रोक्तं ज्ञानार्णवे कनिष्ठानामिकाङ्गुष्ठैर्यन्नासापुट-
धारणम् । प्राणायामः स विज्ञेयस्तर्जनीमध्यमे विना ॥ इति ( वाच०
:)/
सच प्राणायामो द्विविधः । सगर्भ निगर्भश्च । तत्राद्यो मन्त्रजपेन ।
द्वितीयो मात्रया । मात्रा तु वामजानुनि तद्धस्तभ्रामणमात्रकालः ।
अधिकं तु तन्त्रसाराज्ज्ञेयम् ।
<प्रातः
( अव्ययम् ) १ सूर्योदयावधि मुहूर्तत्रयमितः कालः । यथा
•
सर्वेषामुपवासानां प्रातरेव हि पारणम् इत्यादौ । अत्र स्मृतिः प्रांतःकालो
मुहूर्त -
•
मुहूर्तास्त्रीन्संगवस्तावदेव तु ( वाच० ) इति । अन्यत्राप्युक्तम् ।
•
त्रितयं प्रातस्तावानेव तु संगवः । मध्याह्नस्त्रिमुहूर्तः स्यादपराह्नश्च तादृशः ॥
सायाह त्रिमुहूर्तः स्यात्सर्वकर्मसु गर्हितः । अन्यत्रापि प्रातस्तु संस्मृतः कालो
भागश्चाहः स पञ्चमः । संगवत्रिमुहूर्तोथ मध्याहस्तु समः स्मृतः ॥
•
ततस्त्रयो मुहूर्ताश्च अपराहोभिधीयते । पञ्चमोथ दिनांशो यः स सायाह
#