न्यायकोशः /641
This page has not been fully proofread.
न्यायकोशः ।
दयगिरिसंनिहितत्वं च तन्निष्ठोदयगिरिसंयुक्तसंयोगापेक्षयाल्पतरोदयगिरि-
संयुक्तसंयोगवत्त्वम् ( दि० १।२ ) । यथा मथुरातः प्राच्यां प्रयागः इति
( दि० ११२ ) । यथा वा झळकीग्रामात्प्राच्यां तिरुपतिः इति ।
मथुरात इत्यत्र मथुरानिष्ठोदयगिरिसंयुक्तसंयोगपर्याप्तसंख्याव्याप्यसंख्या-
पर्यायधिकरणोदयगिरिसंयुक्तसंयोगवन्मूर्तवृत्तिः प्रयागः इत्यन्वयबोधः
( दि० १।२ ) । एवमन्यत्राप्यन्वय ऊह्यः ।
प्राचीनवंशः – ( मण्डपः ) यस्य मण्डपविशेषस्योपरिवंशाः प्रागग्राः भवन्ति
स प्राचीनवंश: ( जै० न्या० अ० ३ पा० ४ अधि० ६ ) ।
प्राजक:- सारथिः ( मिताक्षरा अ० २ । ३०० )।
-
प्राजापत्यः - ( विवाहः) इत्युक्त्वा चरतां धर्मे सह या दीयतेर्थिने । स कायः
पाबयेत्तज्जः षट् षड्डुंश्यान्सहात्मना ॥ ( याज्ञवल्क्य०अ०१ श्लो०६०)।
प्राजापत्यम् –१ रोहिणी ( पु० चि० पृ० ३०६) । २ प्रायश्चित्तविशेषः ।
त्र्यहं प्रातस्त्र्यहं सायं त्र्यहमद्यादयाचितम् । त्र्यहं परं तु नाश्नीयात्प्रा-
जापत्यं चरन्द्विजः ॥ ( पु० चि० ४९ ) ।
५८७
प्राडिवाकः—विवादानुगतं पृष्ट्वा ससभ्यस्तत्प्रयत्नतः । विचारयति येनासौ
प्राड्ढिवाकस्ततः स्मृतः ॥ (मिताक्षरा अ० २ श्लो० ३) ।
प्राण: – १ (वायुः ) [क] मुखनासिकाभ्यां निष्क्रमणप्रवेशनात्प्राणः
(० १।२ ) । स च विषयात्मको वायुः (त० सं० ) । शरीरेन्द्रिय-
( दि०
विषयात्मकवायुभ्यो भिन्नश्चतुर्थः प्राणाख्यो वायुः इत्यप्याकरग्रन्थेषु
प्रतिपादितम् । तत्तस्मादेवावगन्तव्यम् । [ख] शरीरान्तःसंचारी वायुः।
चैकोपि हृदयादिस्थानभेदात् मुखनिर्गमादिक्रियाभेदाञ्चेत्येवमुपाधिभेदात्
प्राणापानादिसंज्ञां लभते ( त० सं० ) ( सि० च० ) (मु० १ ) ।
यथा मूलाधारोद्गतः प्राणः ( शा० ति० ) इत्यादौ । [ग] कश्चित्
ान्तःकरणवृत्त्या जीवनयोनिप्रयत्नरूपया
व्याप्रियत इति कृत्वा प्राणोन्तःकरणवृत्तिः इत्यभेदनिदेशः इत्याह ।
२ इन्द्रियाणां साधारणी कारणत्रयस्य वृत्तिः ( परिणामः ) न तु