2023-10-18 04:30:21 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
दी०) । अत्यन्ताभावो द्विविध: । एकपर्याप्तधर्मावच्छिन्न प्रतियोगिताकः ।

अनेकपर्याप्तधर्मावच्छिन्न प्रतियोगिताकः । आद्योधर्मो घटत्वादिः । द्वितीय
 

उभयत्वादिः । अयमेव व्यासज्यवृत्तिरित्युच्यते ( सि० च० ४ ) ।
 

 
<अथ>
१ आनन्तर्यम् । २ आरम्भः । ३
प्रश्नः । ४ कार्यम् ।
 
अथ - १ आनन्तर्यम् । २ आरम्भः । ३

( सर्वद० पृ० ३३६ ३४३ ) ।

 
<
अदः>
परोक्षबुद्धिविषयः ( दि० ४ ) ( ग०
श० ) । यथा असौ
हरिश्चन्द्रो राजेत्यादावदःशब्दार्थः ।
( दि० ४ ) ।
 
श० ) । यथा असौ
विप्रकृष्टपरोक्षव्यक्तिरिति केचित्
 

( दि० ४ ) ।
 
<
अदत्तम्>
अदत्तं तु भयक्रोधशोक वेगरुगन्वितैः । तथोत्कोचपरीहासव्य-

व्यासच्छलयोगतः ॥ बालमूढा स्वतन्त्रातमत्तोन्मत्तापवर्जितम् । कर्ता ममेदं

कर्मेति प्रतिलामेच्छया च यत् ॥ अपात्रे पात्रमित्युक्ते कार्ये वा धर्मसंयुते ।

यदत्तं स्यादविज्ञानादत्त मिति तत्स्मृतम् ॥ ( मिताक्षरा २।१७६ )

 
<
अदृष्ट॑ट[^१]म्>
( गुणः ) [ क ] धर्माधर्मशब्दवदस्यार्थोनुसंधेयः ( भा०प०) ।

[ ख ] पुण्यपापात्मकं भोग्यम् । अपूर्वशब्दवदस्यापि व्यवहारस्तत्तन्म-

तानुरोधेन बोध्यः ।
 
अदृष्टार्थकः – ( प्रमाणशब्दः )

 
[^१ ] यस्यामुत्रार्थः प्रतीयते सोदृष्टार्थकः
-
( वात्स्या० ११११ ८ ) ।
 
[ ख ] शब्दतदुपजीविप्रमाणमात्रगम्यार्थकः ( गौ० वृ० ११ १९१८ ) ।
स च स्वर्गापूर्वादीनामस्तित्वादिप्रतिपादकः शब्दः ।
 
अदो वासनया जन्यते । भोगप्रायश्चित्तज्ञानादिना नश्यति । अदृष्टसद्भावे

प्रमाणं चानुमानम् । तच्च [ क ] चैत्रस्य शरीरादिकं चैत्रस्य विशेषगुण..

जन्यं कार्यत्वे सति चैत्रस्य भोगहेतुत्वान्चैत्रप्रयत्नजन्य कुसुमपर्यङ्कादिवदिति

( सि० च० ४) । [ ख ] विमता भोगव्यक्तयो हेतुसापेक्षाः कादाचित्कत्वात्

घटवदित्यादि । तदुक्तम्- सापेक्षत्वादनादित्वाद्वैचित्र्याद्विश्ववृत्तितः । प्रत्यात्मनिय-

माद्भुक्तेरस्ति हेतुरलौकिकः ॥ इति । चिरध्वस्तं फलायालं न कर्मातिशयं विनेवि

च (कु० १ ) । आगमस्तु - पौरुषं दैवसंपत्त्या काले फलति पार्थिव । त्रयमे-

तन्मनुष्यस्य पिण्डितं स्यात्फलावहम् ॥ इत्यादि ।
 

 
<अदृष्टार्थकः>
( प्रमाणशब्दः ) [ क ] यस्यामुत्रार्थः प्रतीयते सोदृष्टार्थकः
( वात्स्या० ११११ ८ ) ।
[ ख ] शब्दतदुपजीविप्रमाणमात्रगम्यार्थकः ( गौ० वृ० ११ १९१८ ) ।
स च स्वर्गापूर्वादीनामस्तित्वादिप्रतिपादकः शब्दः ।