2023-10-30 08:16:16 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

५८२
 
न्यायकोशः ।
 
-
 
<प्रश्वासः>
कोष्ठ्यस्य वायोः बहिर्निःसारणम् (सर्व० सं० पृ० ३७६पातञ्ज ० ) ।

 
<
प्रष्ठाही>
यावता वयसा वर्षत्रयरूपेण पृष्ठे भारं वोढुं शक्तिर्भवति ताव-

द्वयस्का प्रष्ठौही (जै० न्या० अ० ४ पा० ४ अधि० १ ) ।

 
<
प्रसक्तिः>
१ अनुमितिः (दीधि ० ) । २ आपत्तिः । ३ प्रसङ्गः । ४ व्याप्तिः ।

यथा अतिप्रसक्तिरन्यधर्मत्वे (सां० सू० अ० १ सू० ५३) इत्यादौ ।

तदर्थश्च बन्धतत्कारणयोर्भिन्नधर्मत्वेतिप्रसक्तिः मुक्तस्यापि बन्धापत्तिः

इति ( सां० प्र० मा० ११५३ ) । तथा च अत्र अतिप्रसक्तिः अति-

व्याप्तिरित्यर्थः । ५ प्राप्तिः । यथा प्रसक्तं हि निषिध्यते इत्यादौ ।

 
<
प्रसङ्गः>
१ (संगतिः ) [क] उपोद्वातादिभिन्नस्मरणप्रयोजकसंबन्धः

( राम० ) । प्रतियोगित्वानुयोगित्वाधारत्वादीनामप्यन्त्रैवान्तर्भाव: ( म०

प्र० २ पृ० १५ ) । प्रसङ्गत्वं च संगतित्वे सत्युपोद्धातादिभिन्नत्वम्

( जगदीश: ) । [ख ] स्मृतस्योपेक्षानर्हत्वम् ( नील० १ पृ० १५)

( म० प्र० २ पृ० १५) । यथा यथार्थानुभवरूपप्रमाविभजनानन्तरं

प्रमाकरणविभजने प्रसङ्ग : संगतिः ( त० दी० १ पृ० १५) । स्मृत-

स्योपेक्षानर्हत्वमित्यस्यार्थश्च स्मृतिकालावच्छेदेनोपेक्षा नर्हत्वम् ( भवा० ) ।
 

मितिग्रन्थे गदाधरः) । अथवा स्मृतिकालावच्छिन्नोपेक्षानर्हतावच्छेदकधर्म-

यद्वा द्वेषविषयतानवच्छेदकः स्मृतिविषयतावच्छेदको धर्मः इति ( अनु-

वत्त्वम् (वै० सा० द० ) । २ व्याप्तिरूपः प्रकृष्टसंबन्धः । यथा अतिप्रसङ्गः

अप्रसङ्गः इत्यादौ । ३ वैयाकरणास्तु प्राप्तिः । यथा कृताकृतप्रसङ्ग नित्यम्

तद्विपरीतमनित्यम् (परिभाषेन्दु० पृ० ८१) इत्यादी इत्याहुः । ४ मीमां-

सकास्तु अन्योद्देशेन प्रवृत्तौ तदन्यस्यापि
 
सिद्धिः प्रसङ्गः ।
 
अथवा
अन्यो-
अधिo
 

देशेनान्यदीयस्यापि सहानुष्ठानं प्रसङ्गः ( जै० न्या० अ० १२ पा० १

चे० १ ) । यथा पश्वर्थमनुष्ठितेन प्रयाजादिना पशुतन्त्रमध्यपातिनः

पुरोडाशस्याप्युपकारः सिद्ध्यति । यथा वा तप्ते पयसि दध्यानयति सा
.

वाजिनस्यापि सिद्धिः । यथा वा काम्ययागनिष्पत्त्यर्थमनुष्ठितैराग्नेयादिमि-

वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम् इत्यत्र आमिक्षार्थी प्रवृत्तौ अनुदेश्य-

नित्ययागादिसिद्धिः इत्याहुः ( मिता० ) ( प्रा० त० ) ( वाच० ) ।