न्यायकोशः /635
This page has been fully proofread once and needs a second look.
(स्तुतिः ) गुणाविष्करणम् ।
-
५८१
<प्रश्नः
[क] अभिधानप्रयोजनादिजिज्ञासा ( कु० ५)। यथा भोः
किं तव नामधेयम् किमर्थं च भवतावागतम् इति प्रश्नः । अत्र जिज्ञासा-
शब्देन तत्प्रयोज्यकथांनुकूलव्यापारो लक्ष्यते । [ ख ] अविज्ञातप्रार्थनं
च प्रश्न इत्यभिधीयते । [ग] जिज्ञासाविष्करणम् । यथा कीदृशो
गवयपदवाच्यः इति प्रश्नः ( म० प्र० ३ पृ० ३४ ) । [घ ]
शाब्दिकास्तु उत्तरप्रयोजिकेच्छा इत्याहुः ( बै० सा० द० ) ।
[ ङ ] जिज्ञासाज्ञानोद्देश्यक प्रवृत्त्यधीनशब्दः । यथा गुरुं धर्मं पृच्छ-
तीत्यादौ पृच्छतेरर्थः । अत्र धात्वर्थघटकज्ञाने गुरुवृत्तित्वस्यान्वयः ।
शब्दे च धर्मविषयकत्वस्य अन्वयः ( ग० व्यु० का० २ पृ० ४६ ) ।
शब्दस्य च विषयता व्यापारानुबन्धिनी । व्यापारस्तु ज्ञानम् इति बोध्यम् ।
अत्राधिकं तु पृच्छाशब्दव्याख्यानावसरे संपादितम् तत्तत्रैव दृश्यम् ।
[ च ] जिज्ञासाविषयार्थज्ञानानुकूलः केन पथा गन्तव्यम् इत्यभिलापादि-
रूपो व्यापारः । यथा माणवकं पन्थानं पृच्छतीत्यादौ पृच्छेरर्थः ।
अत्र माणवकस्य व्यापारे संबन्धसामान्येनान्वयः । ज्ञानविषयत्वेन पथः
कर्मत्वम् । माणवकेन च तज्ज्ञानाश्रयत्वं संबन्ध: ( ल० म० सुबर्थ ०
पृ० ९२ ) । अत्रेदं बोध्यम् । यद्धर्मविशिष्टे यद्धर्मावच्छिन्नस्य संबन्धो
यत्प्रश्नवाक्यात्प्रतीयते तदुत्तरवाक्यात् तद्धर्मविशिष्ट एव तद्धर्मव्याप्य
धर्मावच्छिन्नसंबन्धश्चेय्प्रतीतो भवति तदैव च प्रश्नोत्तरभावनिर्वाहः ।
यथा कस्माद्धटः इति प्रश्ने दण्डाद्धटः इत्युत्तरम् । यथा वा किं करोति
इति प्रयत्नविशिष्टे प्रश्न पचति इत्यनेन पाककृतिबोध: ( त० प्र०
ख० ४ पृ० ७३ ) । एवम् प्रश्नवाक्ये यत्प्रधानम् तत्समान लिङ्गवचन-
शब्देनैवोत्तरं यथाकथंचित्प्रश्न विषयजिज्ञासानिवर्तकम् । एवं च के
शिष्या अस्य इति प्रश्ने कठाः इत्येवोत्तरम् न तु कठः इति । एवम्
किंशिष्योयम् इति बहुव्रीहिसमासेन प्रश्ने कठः इत्येव न तु कठाः इति ।
तस्क शिष्याणां कठत्वमर्थप्राप्तम् इत्यार्थमिदमुत्तरम् इति
( ल० म० लका० पृ० ७६ ) ।