न्यायकोशः /634
This page has not been fully proofread.
न्यायकोशः ।
यस्ताः पुरुषभेदमनुविधीयमाना उभयरूपा भवन्ति । वीतरागप्रवृत्तिरे-
कधा । तत्र या वीतरागाणां प्रवृत्तिः सा खल्वेकरूपा । अनिष्टप्रतिषे-
धार्था । अनिष्टं हास्याम इत्येव ते प्रवर्तन्ते । न पुनरेषां क्वचिदभिष-
ङ्गोस्ति । रागादिमत्प्रवृत्तिस्तु द्विरूपा । ये तु रागादिमन्तस्तेषां याः
प्रवृत्तयस्ता द्विविधा भवन्ति । इष्टानिष्टविषयाधिगमप्रतिषेधार्थाः । इष्ट-
माप्स्यामीति सक्तः प्रवर्तते । अनिष्टं हास्यामीति द्वेषान्निवर्तते । रागादि-
मत्प्रवृत्तेरपि द्वैविध्यं भवति । समर्थासमर्थभेदात् । या खलु रागादि-
त्प्रवृत्तिः सा समर्था असमर्था च भवति । इष्टमाप्स्यामीति प्रवर्तमान
प्राप्नोति तदा समर्था । तथा अनिष्टं हास्यामीति प्रवर्तमानो यदा जहाति
तदा समर्था । यदा विपर्ययस्तदा असमति ( न्या० वा० पृ० ३ ) ।
भट्टपादा आहुः । लोके प्रवृत्तिर्द्वधा । स्वेच्छाधीना परप्रेरणाजन्या च ।
तत्राद्यायां प्रवर्तनाया अनुपयोगेपि द्वितीयप्रवृत्तौ सा प्रयोजिका
आचार्यप्रेरणयेदं करोमि इति व्यवहारातू ( दि० गु० प्रयत्ननि०
पृ० २२६)। २ शब्दानामर्थबोधनशक्तिविशेषः प्रवृत्तिः । यथा
प्रवृत्तिरासीच्छब्दानां चरितार्था चतुष्टयी ( कुमार० २११७) इत्यादौ ।
३ स्वविषय इन्द्रियादीनां संचारः । ४ प्रवाहः । ५ वार्ता इति
काव्यज्ञा आहुः ( वाच० ) ।
प्रवृत्तिनिमित्तम् – [क] पदशक्यतावच्छेदकम् यथा घटत्वं घट
प्रवृत्तिनिमित्तम् । एवम् शुक्लादिपदस्य शुकृत्वम् पाचकादेः पाक:
देवदत्तादेस्तत्तत्पिण्डादि प्रवृत्तिनिमित्तं भवति । प्रवृत्तिनिमित्तशब्दस्य
व्युत्पत्तिः प्रवृत्तेः शब्दानामर्थबोधनशक्तेः निमित्तं प्रयोजकम् इति ।
तच शक्यतावच्छेदकं भवति इति ज्ञेयम् । तल्लक्षणं च प्रकारतया
शक्तिग्रहविषयत्वम् ( चि०) । अथवा वाच्यत्वे सति वाच्यवृत्तिवे सति
वाच्योपस्थितिप्रकारत्वम् इति ( ग० शक्ति० ) । [ ख ] निरवच्छिन्न-
विशेष्यता निरूपितप्रकारतावत् इति शाब्दिका वदन्ति ।
प्रवेशः— पुत्रोद्वाहः प्रवेशाख्यः (पु० चि० पृ० ४५० ) ।
प्रवेशनम् – निष्क्रमणबदस्यार्थोनुसंधेयः ।
-