2023-10-30 08:03:18 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
५७७
 
प्रवर्तनम् / –
<प्रवर्तनम्>
<प्रवर्तना>
१ प्रवृत्तिहेतुत्वम् (गौ० वात्स्या० भा० १।१।१८) । यथा
 

प्रवर्तनालक्षणा दोषाः ( गौ० १११११८) इत्यादौ । २ [ क ] यद्वि-

षयकत्वेन ज्ञानस्य प्रवृत्तिजनकत्वं तत् । यथा स्वर्गकामो यजेत जल-

माहरेतेत्यादौ लिडर्थो विधिः प्रवर्तनम् (वै० सा० ) ( कु० ५/६ ) ।

अत्र यत्पदार्थ इष्टसाधनत्वम् । तथा च इष्टसाधनत्वस्य ज्ञानं प्रवृत्तिं

जनयतीतीष्टसाधनत्वं प्रवर्तनं भवति इति ज्ञेयम् ( बै० सा० द० ) ।

मण्डन मिश्राणामपीदमेव मतम् इति विज्ञेयम् ( दि० गु० प्रयत्न नि०

पृ० २२६) । [ ख ] भट्टपादास्तु प्रवर्तयितुः प्रवृत्त्यनुकूलव्यापार-

विशेष: इत्याहुः । स च चेतनस्याभिप्राय एव । अचेतनस्य तु वेदस्या-

भिधानामा कश्चिच्छब्दसमवेतः शाब्दभावनापरपर्यायो लिङ्त्वांशेनोच्यते

इति ( दि० गु० विधिनि० पृ० २२६ ) । [ग] प्रवृत्त्यनुकूलो

व्यापारः प्रवर्तना ( मी० न्या० पृ० ६९ ) । प्रवर्तना च प्रवृत्तिजनक-

ज्ञानविषयितावच्छेदिका इति वैयाकरणाः ( दि० गु० पृ० २२६ ) ।

प्रवर्तना चतुर्विधा विधिनिमन्त्रणामन्त्रणाधीष्टभेदात् । तत्र विधिः प्रेरणम् ।

भृत्यादेर्निकृष्टस्य प्रवर्तनम् । निमन्त्रणं नियोगकरणम् । आवश्यके श्राद्ध-

भोजनादौ दौहित्रादेः प्रवर्तनम् । आमन्त्रणं कामचारानुज्ञा । अधीष्टः

सत्कारपूर्वको व्यापारः ( सि० कौ० पृ० १८९) । अत्रोक्तम् अस्ति

प्रवर्तना रूपमनुस्यूतं चतुर्ष्वपि इति ( वाच० ) ।

 
<
प्रवीचारः - .
भोगः ।
 

 

 
<
प्रवृत्तिः>
१ (प्रयत्नः ) [ क] उत्कटरागजन्यः प्रयत्नविशेषः (वै०
 
वि०
T०

३११/१९ ) । लक्षणं तु प्रवृत्तित्वमेव । तच्च रागजन्यता-

वच्छेदकतया सिद्धो जातिविशेषः (गौ० वृ० ११ १२ १९१७) । चिकी-

र्षाजन्यतावच्छेदको जातिविशेषो वा ( मू० म० १) (ल० ब०

पृ० १३७) । चेष्टाजनकतावच्छेदकतया सिद्धो जातिविशेषो

( श० प्र० श्लो० ९५ पृ० १३७ ) । प्रवृत्युत्पत्ताषयं क्रमः । प्रथमतः

फलज्ञानम् । ततः फलेच्छा । तत इष्टसाधनताज्ञानम् उपाये । तत

उपायेच्छा । ततः प्रवृत्तिरुत्पद्यते इति ( त० प्र० ख० ४ पृ० १०३ ) ।
 
वा
 

७३ न्या० को०