This page has not been fully proofread.

५७६
 
न्यायकोशः ।
 
इदानींतनत्वं विशेषणं देयम् । तेन वक्ष्यमाणं सर्वे संगच्छते नानु-
पपत्तिश्च । तथाहि । दोषदूषितचित्तो विषभक्षणादौ प्रवर्तते । इदानीं
• बलवद निष्टा ननुबन्धित्वज्ञानात् । तृप्तश्च भोजने न प्रवर्तते । इदानी -
. मिष्टसाधनत्वाज्ञानात् । भावियौवराज्ये बालस्य न प्रवृत्तिः । इदानीं
कृतित्वज्ञानात् (दि० गु० पृ० २२५ ) । यथा वा जर
न्नैयायिकमते इष्टसाधनताविषयकं कृतिसाध्यताज्ञानमेव प्रवर्तकम् । यथा
विशेषणवत्ताप्रतिसंधानजन्यं कार्यताज्ञानं प्रवर्तकम्
 
( चि० ४ ) ( न्या० म० ४
 
पृ० २५-२७) (दि० गु०
 
पृ० २२२ - २२४ ) । स्वविशेषणवत्तेयादेरर्थश्च स्वम् प्रवर्तमानः
पुरुषः । तत्र विशेषणम् काम्ये हि यागादौ कामना । नित्ये संध्यावन्द-
नादौ तु विहितकालशौचादि । तद्वत्ता पक्षे तत्संबन्धः । तस्य प्रतिसंधा-
नम् तत्संबन्धज्ञानम् । तज्ज्ञानमेव वा परामर्शात्मकम् । तेन जन्यं कार्यता-
• भोजनकाम: पचेत इत्यादि काम्यम् । अहरहः संव्यामुपासीतेत्यादि नित्यम् ।
ज्ञानम् कृतिसाध्यताज्ञानम् अनुमित्यात्मकम् इति । तत्र स्वर्गकामो यजेत
● इत्यर्थ: ( दि० गु० पृ० २२३) । अत्रानुमानयोगः
तथाच काम्यस्थले काम्यसाधनताज्ञानम् नित्यस्थले तु शौचादिज्ञानम्
मत्कृतिसाध्यो मत्कृति विना असत्वे सति मदिष्टसाधनत्वात्
( दि० गु० पृ० २२३ ) । नित्ये तु अहमिदानींतनकृतिसाध्यसंध्या-
वन्दनः संध्यासमये शौचादिमत्त्वात् पूर्वसंध्यायामहमिव इति (चि० 8 ) ।
अत्र तदानींतनं स्वविशेषणम् इति वक्तव्यम् । तेन तृप्तश्च भोजने न
प्रवर्तते । तदानीं कामनायाः पुरुषविशेषणत्वाभावात् । प्रतिसंधानं
च बलवदनिष्टाननुबन्धित्वविषयकम् इति वक्तव्यम् । तेन मधुविष-
संपृक्तानभोजने न प्रवृत्त्यापत्तिः । एवं च बलवदनिष्टानुबन्ध-
विषयकं यत् स्वविशेषणवत्ताज्ञानम् तज्जन्यं कृतिसाध्यताज्ञानं प्रवर्तकं
भवति इति निष्कृष्टोर्थ: ( दि० गु० पृ० २२३) । यथा वा चोद-
नेति क्रियायाः ( नियोगस्य) प्रवर्तकं (ज्ञानद्वारा प्रवर्तकम् ) वचनम्
इत्यादी (शावरभाष्यम्) । अधिकं तु विधिशब्दे प्रवृत्तिशब्दे च सवि-
स्तरं संपादयिष्यते इति तत् तत्र द्रष्टव्यम् ।