न्यायकोशः /63
This page has not been fully proofread.
न्यायकोशः ।
९
-
अत्यन्ताभावः – ( अभावः ) [क] यद्वस्तु यत्र न कदापि भविष्यति न
च कदाचिद्भूतं तस्य वस्तुनस्तत्रात्यन्ताभावो मन्तव्यः (वै० उ०९।१।९) ।
यथा वायौ रूपं नास्तीति प्रतीतिसाक्षिकोभावः (वै० वि०९।१।९) ।
[ ख ] त्रैकालिकसंसर्गावच्छिन्न प्रतियोगिताकोभावः ( त० सं० ) ।
[ग] त्रैकालिकः संसर्गाभावः ( त० कौ० ) ।
[ घ ] नास्तीत्यनुभवसिद्धो नित्यः संसर्गाभावः (न्या०म० १) (मु०१) ।
[ ङ ] प्रतियोग्याश्रयोभावोत्यन्ताभावः (सर्व० औलु० पृ० २३२) । य-
स्याभावस्याश्रयो भूतलादिवत्प्रतियोग्यपि संभवति सः । घटेपि घटात्यन्ता-
भावस्य सत्त्वात् । घटप्रतियोगिकानां प्रागभावप्रध्वंसान्योन्याभावानां तु न
कदापि घट आश्रयो भवति । घटप्रागभावस्याश्रयो मृत्पिण्डः । प्रध्वंसस्या-
श्रयः कपालानि । अन्योन्याभावस्य च पटादिः । केचित्तु ( प्राञ्चः ) यत्र
भूतले पूर्वं घटादिकं स्थितमथापसारितं पुनरानीतं च तत्रोत्पाद
विनाश-
शाली सामयिकनामा चतुर्थ: संसर्गाभाव एव प्रतीयते नात्यन्ताभाव
इत्याहु: (वै० वि० ९/११५ ) । केवलाधिकरणादेव नास्तीति व्यवहा-
रोपपत्तावभावो न पदार्थान्तरमिति प्राभाकरा आहुः ( दि० १) ( त०
१ अत्र [ क ] अत्यन्तः - अन्तमवधिमतिक्रान्तो नित्योभाष इति व्युत्पत्तिः ।
अत एवायमायन्तिकस्नैकालिक इत्यभिधीयते ( वै० उ० ९/१/९ ) । असौ
त्रैकालिकस्तस्मादुक्त आत्यन्तिकस्तथा ( त० व० २७२ ) । [ ख ] अन्तं स्वप्रति-
योगिनिष्ठाभावप्रतियोगित्वमतिकान्तोत्यन्तः स चासावभावश्च इति विप्रहः ।
तस्य भावोत्यन्ताभावत्वम् । स्वप्रतियोगिनिष्ठस्वसदृशाभावप्रतियोगित्व व्यभिचार्य-
भावत्वमिति यावत् । तद्यथा-घटात्यन्ताभावस्य स्वप्रतियोगिनिष्ठात्यन्ताभावप्र-
तियोगित्वाभाववति घटवृत्तिधर्मे सत्त्वात्तत्त्वं तत्राक्षतम् । घटान्योन्याभाषस्य तु
स्वप्रतियोगिनिष्टान्योन्याभाषप्रतियोगित्यव्यापकत्वास यावृत्तिः (वै० सा० द०
३३४) । अत्रेदं बोध्यम्-ध्वंसप्रागभावकालेपि तदधिकरणेत्यन्ताभावो वर्तत
इति नवीननैयायिकानां मतम् । ध्वंसप्रागभावयोरत्यन्ताभावेन सह विरोधेन स
न वर्तत इति प्राचीना वदन्ति ( ग० च० १ ) ( मुक्ता० १ ) ।
२ संसर्गाभावशब्दो द्रष्टव्यः ।
३ त्रैकालिकत्व मिह नित्यध्वम् ( नील० ) । तबाभावस्य विशेषणम् ।
४ तादात्म्यातिरिक्त संसर्ग इत्यर्थः । तेन नान्योन्याभावेतिव्याप्तिः ।
न्या० को० २
.