न्यायकोशः /629
This page has not been fully proofread.
न्यायकोशः ।
५७५
लय: प्रलयः ( सर्व० सं० पृ० ३८६ पातञ्ज० ) । कूर्मपुराणे चैव-
मुक्तम् । नित्यो नैमित्तिकश्चैव प्राकृतात्यन्तिकौ तथा । चतुर्धायं पुराणे-
स्मिन् प्रोच्यते प्रतिसंचरः ॥ इति । तत्र नित्यो यथा योयं संदृश्यते
नूनं नित्यं लोके क्षयस्त्विह। नित्यः संकीर्त्यते नाम्ना मुनिभिः प्रतिसंचरः ॥
अत्र मायावादिन आहुः । नित्यप्रलयो नाम सुषुप्तिः । तस्याः सकल-
कार्यप्रविलयरूपत्वात् । धर्माधर्मपूर्वसंस्काराणां च तदा कारणात्मना-
वस्थानम् । यद्वा अन्तःकरणस्य द्वे शक्ती ज्ञानशक्तिः क्रियाशक्तिश्च ।
तत्र ज्ञानशक्तिविशिष्टान्तःकरणस्य सुषुप्तौ विनाशः । न क्रियाशक्ति-
विशिष्टस्य इति प्राणाद्यवस्थानमविरुद्धम् इति ( वेदा० प० विषय० प०
पृ० ८१-८२)। नैमित्तिको यथा ब्राह्मो नैमित्तिको नाम कल्पान्ते
यो भवष्यति । त्रैलोक्यस्यास्य कथितः प्रतिसर्गो मनीषिभिः ॥ तत्र
नैमित्तिकप्रलयकालश्च कल्पतुल्यः । यदा स देवो जागर्ति तदेदं चेष्टते
जगत् । यदा स्वपिति शान्तात्मा तदा सर्वे निमीलति ॥ इति ( मनु०
अ० १ श्लो० ५२ ) मनुना हिरण्यगर्भस्य निद्रासमये तत्प्रलयस्योक्तेः
( वाच० ) । प्राकृतो यथा महदाद्यं विशेषान्तं यदा संयाति संक्षयम् ।
प्राकृतः प्रतिसर्गोयं प्रोच्यते कालचिन्तकैः ॥ अयमेव प्रलयः खण्ड-
प्रलयः इति अवान्तरप्रलयः इति च नैयायिकैर्व्यवयिते इति ज्ञेयम् ।
आत्यन्तिको यथा ज्ञानादात्यन्तिकः प्रोक्तो योगिनः परमात्मनि । प्रलयः
प्रतिसर्गोयं कालचिन्तापरैर्द्विजैः ॥ आत्यन्तिकश्च कथितः प्रलयो लय-
साधनः इति ।
मलयाकलः - ( जीवः ) प्रलयेन कलादेरुपसंहारान्मलकर्मयुक्तो जीवः
( सर्व० सं० पृ० १८३ शैव० ) ।
प्रवर: - ऋषेर्नाम ( मिता० अ० १ श्लो० ५३) । यथा भार्गववीतह-
व्यसावेतसाः इति मम ( न्यायकोशकर्तुर्भीमाचार्यस्य ) त्रयः प्रवराः ।
प्रवर्तकम् - प्रवृत्तिजनकम् । यथा नव्यनैयायिकमते बलवदनिष्टा ननुबन्धीष्ट-
साधनले सति कृतिसाध्यताविषयकं ज्ञानं प्रवर्तकम् । अत्र बलवद-
निष्टेत्यत्र बलवद्वेषे इष्टसाधनत्वघटकेच्छायां कृतिसाध्यता घटककृतौ च
--