2023-10-30 07:58:48 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
५७१
 
प्रयोजकत्वम् –
<प्रयोजकत्वम्>
१ [ क ] परंपरया ( न तु साक्षात् ) कार्यजनकत्वम् ।

यथा काश्यां मरणान्मुक्तिरित्यादौ मोक्षं प्रति काशीमरणस्य प्रयोजकत्वम् ।

अत्र मुक्तौ तत्त्वज्ञानस्यैव साक्षात्कारणत्वम् । काशीमरणस्य तु मुक्तौ

परंपरया कारणत्वम् इति तस्य प्रयोजकत्वं ज्ञेयम् ( त० प्र० १

मङ्गल० ) । अत्रेदं तत्त्वम् । यस्यानुकूलतर्कोस्ति स एव स्यात्प्रयोजकः

हेतुः इति । यस्यानुकूलतर्काभावः सोन्यथासिद्धः (ता० २० श्लो०८७-

८८ ) । अत्र वदन्ति कारणस्य यत् कारणम् तस्य प्रयोजकत्वम् इति ।

अत्र गुरुचरणाः प्राहुः तन्निष्ठान्यथासिद्धिभिन्नान्यथासिद्धिशून्यत्वे सति

कार्याव्यवहितपूर्ववृत्तित्वम् इति । [ख] स्वरूपसंबन्धविशेषः । यथा

दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानां मध्ये यदुत्तरोत्तरम् तेषामपाये तत्पूर्व -

स्यापायादपवर्गः इत्यादौ पञ्चम्यर्थः । यथा वा दण्डाभावाद्धटाभाव

इत्यादौ दण्डाद्यन्वयी पञ्चम्यर्थः प्रयोजकत्वम् ( गौ० दृ० ११ १२ १२ ) ।

२ हेतुत्वम् । तच्च ज्ञापकज्ञान विषयत्वम् । यथा पर्वतो वहिमान् घूमा-

दियाद धूमस्य प्रयोजकत्वम् (ग० व्यु० का० ३ पृ० ८७ ) ।

३ वैयाकरणास्तु हेतुसंज्ञककर्तृत्वम् । यथा तत्प्रयोजको हेतुश्च

(पा० सू० १/४/५५) इत्यादौ इत्याहुः । यथा वा धर्मशास्त्रे प्रयोज-

यिता मन्ता कर्तेति स्वर्गनरकफलेषु कर्मसु भागिनः । यो भूय आरभते

तस्मिन् फलविशेष: ( आपस्त० सू० २।११।२९। १९ - २ ) इत्यादौ

प्रयोजकत्वम् । अत्र प्रयोजकस्य हन्तृत्वम् ( प्रा० वि०) निर्णीतं यथा

निरन्तरव्यापाराव्यवधानेन वधनिष्पादकः कर्ता । यः कर्तारं कारयति स

प्रयोजकः । सोपि द्विविधः । तत्रैकः स्वतोप्रवृत्तं पदातिं वेतनादिना

धार्थ प्रर्तयति। अरस्तु स्वतः प्रवृत्तमेव मन्त्रोपायोपदेशादिना

प्रोत्साहयति इति ( वाच ) ।
 
&
 
-
 

 
<
प्रयोजनम्>
[क] यमर्थमधिकृत्य प्रवर्तते तत् प्रयोजनम् ( गौ०
-

१।१।२४ ) । यमर्थमाप्तव्यं हातव्यं वाध्यवसाय तदाप्तिहानोपायमनु-

तिष्ठति प्रयोजनं तद्वेदितव्यम् । प्रवृत्तिहेतुस्वात् । इममर्थमाप्स्यामि

हास्यामि वेति व्यवसायोर्थस्याधिकारः । एवं व्यवसीयमानोर्थोधिक्रियत इति