न्यायकोशः /619
This page has not been fully proofread.
न्यायकोशः ।
ततः घटमहं जानामि इत्यनुव्यवसायः । ततो व्यवसायस्य नष्टत्वात्
पुनः घटोयम् इति व्यवसायः । ततश्च घटमहं जानामि इत्यनुव्यवसायः ।
तेन प्रामाण्यं गृह्यते इति ( त० प्र० ख० ४ पृ० १३१) । नैयायि-
कानामयं भावः । प्रामाण्यस्य खतो ग्रहे अनभ्यासदशोत्पन्नज्ञाने तत्संशयो
न स्यात् । ज्ञानग्रहे प्रामाण्यनिश्चयात् । अनिश्चये वा न स्वतः प्रामाण्य-
ग्रहः । ज्ञानाग्रहे धर्मिज्ञानाभावात् न संशयः । अनभ्यासदशोत्पन्नम्
प्रामाण्यव्याप्यवत्तानिश्चयकालीनम् । तत्संशयः इदं प्रमान वा इति
प्रामाण्यसंशयः ( सू० म० १ प्रामा० पृ० १८९ ) । अयं भावः ।
न च संशयस्थले ज्ञानग्रहोपि (प्रामाण्याश्रयज्ञानस्य विशेष्यस्य ग्रह एव )
नास्ति इति वाच्यम् । ज्ञानाग्रहे ज्ञानधर्मिक प्रामाण्यतदभावकोटिक संशया-
अनुपपत्तेः । संशये धर्मिज्ञानस्य हेतुत्वात् (चि० १ प्रा० पृ०
१८८-९८९ ) ( त० कौ० पृ० १८ ) इति । यदि मीमांसकाः
प्रमात्वस्य स्वतो ग्राह्यत्वं स्वीकुर्युस्तदा अनभ्यासदशायां (प्राथमिकजल-
ज्ञानग्रहोत्तरदशायाम् ) तन्मते प्रामाण्यसंशयानुपपत्तिः । तथाहि ।
ज्ञानग्रहानन्तरम् किंचिज्जातं मे यज्जलज्ञानम् तत् प्रमा न वा इति
प्रामाण्यसंशयो लोकेनुभवसिद्धः । स न स्यात् ॥ तन्मते ज्ञानग्रहे
प्रमात्वस्यापि निश्चितत्वेन तत्संशयायोगात् इति । अतः परत एव
अनुमानादिना प्रमात्वमवश्यं ग्राह्यम् ( त० कौ० पृ० १८) इति ।
परतस्त्वं च ज्ञानसामान्यग्राहकातिरिक्तग्राह्यत्वम् । ईदृशपरतस्त्वं ज्ञप्तौ
कचित् द्वितीयानुव्यवसायमादाय । कचित्तु अनुमानमादाय बोध्यम् ।
तथाहि । परतो ग्रहणे प्रमाणमनुमानम् । तच्च विमता प्रमा ज्ञान-
हेत्वतिरिक्तहेत्वधीना कार्यवे सति तद्विशेषत्वादप्रमावत् (सर्व०
पृ० २८२ जैमि० ) इति । तथा च द्वितीयानुव्यवसायेन व चित्प्रामाण्यग्रहे
च प्रामाण्यरूपसाध्यप्रसिद्भावनुमानमपि प्रामाण्यग्राहकम् । तद्यथा इदं
• पुरुषज्ञानम् प्रमा करादिमति पुरुषज्ञानत्वात् संप्रतिपन्नवत् । यद्वा यनैवं
तन्नैवम् इति व्यतिरेकी। तदर्थश्च इदम् द्वितीयानुमानेनागृहीतप्रामाण्य कम्
पुरुषज्ञानं प्रमा ( पुरुषत्व वद्विशेष्यकत्वे सति पुरुषत्व प्रकारकत्ववत्)
CR
s