2023-10-30 07:53:51 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
स्वप्रकाशत्वरूपज्ञानस्वभावेन यथा तेनैव ज्ञानेन तदेव सिद्ध्यति तथा

तद्गतं तत्प्रकारकत्वरूपं प्रामाण्यमपि सिद्ध्यति इत्यर्थः ( म० प्र०

पृ० ६८ ) । भट्टास्तु ज्ञानं तावत्स्वविषये ज्ञातताख्यं फलं जनयति इति

निरूढम् । तथैवानुमेयं ज्ञानम् । तथा च ज्ञाततया ज्ञानानुमितिर्जायमाना

प्रामाण्यमपि विषयीकरोति इत्याहुः । स्वविषये इत्यस्य ज्ञानविषये घटादा-

वित्यर्थः । ज्ञातो घटः इति प्रतीतेर्ज्ञातताख्यं फलं जन्यते इति बोध्यम् ।

अस्य प्रतीतौ ज्ञानं निमित्तकारणम् । घटादिकं समवायिकारणम् । असम-

चायिकारणं तु नापेक्षितम् । भावकार्यस्य सासमवायिकारणकत्वम् इति

नियमस्य भरङ्गीकरात् इति । ज्ञानं न प्रत्यक्षम् । अनवस्थापत्तेः ।

किंतु अनुमितिग्राह्यमेव इति भट्टमतम् ( त० प्र० ख० ४ पृ० १२९) ।

। ( अनुमानं तु घटो ज्ञानवान् ज्ञाततावत्त्वात् इति ( म० प्र० पृ० ६७ ) ।

तदर्थश्च ज्ञाततया घटो ज्ञानवान् ज्ञाततावत्वात् इत्यादिना ज्ञानवि-

धेयकानुमितिर्जायमाना घटत्ववति घटत्वप्रकारकत्वरूपं प्रामाण्य-

मपि विषयीकरोति ( त० प्र० ख० ४ पृ० १३० ) इति ।
 
घटो
 

घटत्वप्रकारकज्ञानविशेष्यः घटत्वप्रकारकज्ञाततावत्वात् इत्यनेन घंटे
 

घटत्व प्रकारकज्ञान विशेष्यत्वानुमितिर्जायमाना घट विशेष्यघटत्व प्रकारक

१ पृ० ६७ ) । मुरारिमिश्रास्तु तद्वद्विशेष्यकत्वे सति तत्प्रकारकत्वं

ज्ञानेपि विषयीकरोति । तयोः समान वित्तिवेद्यत्वादिति भावः ( म०प्र०

प्रामाण्यम् । तच्च घटमहं जानामि इति प्रथमानुव्यवसायेनैव गृह्यते ।

तथाहि घटत्ववांस्तावत् घटोयम् इति व्यवसायेनोपनीतः ( मनसा

सह संनिधापितः ) । अतः तद्वद्विशेष्यकता संसर्गरूपा ज्ञानेन मनसा

11 गृह्यते । विशेषणस्य पूर्वमुपस्थितत्वात् । एवम् घटत्वमपि व्यवसायेवो

पनीतम् । अतः तत्प्रकारकता विषयतावत्सुग्रहा इत्युभयस्यैकग्रहेण

गृहीतं प्रामाण्यम् इत्याहुः (न्या० म० ४ पृ० ३३-३४ ) ( म० प्र० ) ।

ॐ नैयायिकास्तु परतः अनुमानादिना ज्ञानस्य प्रामाण्यं ग्राह्यम् उत्पाद्यं चेति

( प्रथमं अयं घटः इति ज्ञानम् । ततः ज्ञानज्ञानले इति निर्विकल्पकम् ।

वदन्ति । अत्रायमर्थ: । द्वितीयानुव्यवसायेन प्रामाण्यं गृह्यते । त
 
G