This page has not been fully proofread.

न्यायकोशः ।
 
५६३
 
पृ० ३४ ) । अत्रायमाशयः । नैयायिका अपि अनुष्यवसाये विशेष्यत्व-
प्रकारत्वयोर्भानमङ्गीकुर्वन्ति । पुरोवर्तिनं घटत्वेन जानामि इत्याकारकस्यै-
वानुव्यवसायस्य तैरङ्गीकारात् । परंतु पुरोवर्तिनि घटादौ घटत्वादिरूपप्रका~
रसंबन्धभानं नाङ्गीकुर्वन्ति । अतस्तत्र प्रकारसंबन्धमानस्य व्यवस्थापने कि-
मपि नावशिष्टम् इति प्रामाण्यस्य भानं न सिध्यति । अनुपस्थितयोरपि विशे-
ष्यत्वप्रकारत्वयोर्भानस्य सर्वसंमतत्वात् इति (नील० प्रामा० पृ० ३६) ।
प्राभाकराश्चेत्थमाहुः । ज्ञानस्य प्रत्यक्षत्वमेव । प्रमात्वं स्वत एव गृह्यते ।
प्रमात्वाश्रयीभूतं यत् ज्ञानम् तत् यया कारणसामग्र्या आत्ममनःसंनि-
कर्षः इन्द्रियविषयसंनिकर्षः इत्यादिकया जन्यते तद्वृत्तिप्रमात्वमपि तयैव
सामग्र्या गृह्यते । तथाच स्वप्रकाशमेव ज्ञानम् । अत्र व्युत्पत्तिः । स्वं
प्रकाशते भासते यत्र तत् इति ( त० प्र० ख० ४ पृ० १२८ ) ।
यथा न्यायनये घटज्ञानं घटविषयकत्वाद्धटप्रकाशम् । यथा वा ईश्वरज्ञानं
स्वविषयकत्वात्स्वप्रकाशमपि ( अन्यथा तज्ज्ञानस्य सर्वविषयकत्वं न स्यात् )
तथा गुरुमते सर्वमेव ज्ञानं स्वविषयकत्वात्स्वप्रकाशमेव ( म० प्र०
पृ० ६७ ) । तथा च अयं घटः इति ज्ञानम् यथा घटादिकं विषयी-
करोति तथा स्वात्मानं स्वस्वरूपम् स्वस्याधिकरणम् आत्मानं च विषयी-
करोति । ज्ञानस्य घटादिविषय स्वस्वरूप आत्मरूपाधिकरण एतत्रय-
विषयकत्वादेव सर्वमेव ज्ञानम् घटमहं जानामि इत्याकारकमेव । इत्थं
सर्वस्य व्यवसायस्यानुव्यवसायात्मकत्वे च ज्ञानस्य मितिमातृमेयविषयकत्वात्
त्रिपुटीप्रत्यक्षता इति प्रवादः । तदर्थश्च ज्ञानस्य सर्वस्य ज्ञानस्य ।
मितिः ज्ञानम् । माता आत्मा । मेयम् घटादि । तद्विषयकत्वात् मितिमातृ-
मेयानां ज्ञानस्यैकसामग्रीकत्वात् । त्रिपुटी त्रयाणां पुटानां समाहारत्रिपुटी ।
मितिमातृमेयविषया तत्प्रत्यक्षता इति ( त० प्र० ख० ४ पृ० १२८-
१२९ ) । तथा च स्वप्रकाशमहिम्ना स्वमिव स्वप्रामाण्यमपि सिद्ध्यति
( विषयीभवति) इत्याहु: ( न्या० म० ४ पृ० ३३ ३४ ) ( त०
प्र० ख० ४ पृ० १२८) ( म० प्र० पृ० ६९ ) । स्वस्मिन्स्वविषय-
कत्वं स्वीक्रियते इति भावः ( त० प्र० ख० ४ पृ० १३० ) ।