न्यायकोशः /615
This page has been fully proofread once and needs a second look.
1...
ह्यत्वं स्वतस्त्वम् । यद्वा यावत्स्वाश्रयग्राहकप्राह्ययोग्यत्वं स्वतस्त्वम् इत्याहुः ।
एतन्मतेपि प्रमात्वं स्वत एवोत्पद्यते ज्ञायते च । तथाहि । प्रमात्वम् ज्ञान-
सामान्यसामग्रीप्रयोज्यम् । न त्वधिकं गुणमपेक्षते । प्रमामात्रेनुगतगुणा-
( भावात् । नापि प्रत्यक्षप्रमायां भूयोवयवेन्द्रियसंनिकर्षः । रूपादिप्रत्यक्षे
आत्मप्रत्यक्षे च तदभावात् । सत्यपि तस्मिन् पीतः शङ्खः इति प्रत्यक्षस्य
भ्रमत्वाच्च । अत एव न सलिङ्गपरामर्शादिकमप्यनुमित्यादिप्रमायां
गुणः । असलिङ्गपरामर्शादिस्थलेपि विषयाबाधेनानुमित्यादेः प्रमात्वात् ।
अस्मिन्मते खतो ग्राह्यत्वं च दोषाभावे सति यावत्स्वाश्रयग्राहकसामग्री-
ग्राह्यत्वम् । तथाहि स्वाश्रयः वृत्तिज्ञानम् । तद्ब्राहकम् साक्षिज्ञानम् ।
तेन वृत्तिज्ञाने गृह्यमाणे तद्गतं प्रामाण्यमपि गृह्यते । न चैवं प्रामाण्य -
संशयानुपपत्तिः । तत्र संशयानुरोधेन दोषस्यापि सत्त्वेन दोषाभावघटित-
स्वाश्रयग्राहकाभावेन तत्र प्रामाण्यस्यैवाग्रहात् इति ( वेदा० प० अनुपल-
ब्धिपरि० पृ० ७१) । यद्वा यावत्स्वाश्रयग्राहकग्राह्यत्वयोग्यत्वं स्वतस्त्वम् ।
संशयस्थले प्रामाण्यस्योक्तयोग्यतायाः सत्त्वेपि दोषवशेनाग्रहात् न संशया-
नुपपत्तिः इति । अप्रामाण्यं तु नः ज्ञानसामान्यसामग्री प्रयोज्यम् । प्रमाया-
मप्यप्रामाण्यापत्तेः । किं तु दोषप्रयोज्यम् । नाण्यप्रामाण्यम् यावरस्वाश्रय-
ग्राहकग्राह्यम् । अप्रामाण्यघटक तदभावत्वादेर्वृत्तिज्ञानानुपनीतस्वेन सा-
क्षिणा प्रहीतुमशक्यत्वात् । किंतु विसंवादिप्रवृत्यादिलिङ्गकानुमित्यादि-
विषयः इति परत एवाप्रामाण्यमुत्पद्यते ज्ञायते चेति ( वेदान्तप०
अनुपलब्धिपरिच्छेदः पृ० ७१-७२) । तत्र प्रमात्वं स्वतोप्राह्ममिति
वदतां मीमांसकानामयमाशयः । यथा दूरात्प्रत्यक्षेण इन्द्रियेण जला-
दिज्ञाने जाते तत्र स्वत एव यथार्थज्ञानस्वरूपप्रामाण्यमवधार्य जलार्थी
प्रवर्तते । ज्ञानग्रहे तद्गतप्रामाण्यस्यापि ग्रहात्प्रमात्वस्य स्वतस्त्वमुपपद्यते
( त० कौ० प्रामा० पृ० १८) इति । अन्यत्र चेत्थमुक्तम् । मीमांसक-
मते प्रामाण्यस्य स्वतस्त्वं द्विविधम् उत्पत्तौ ज्ञप्तौ चेति । तत्र उत्पत्तौ
स्वतस्त्वं नाम ज्ञानकरणमात्रजन्यध्वम् । येन ज्ञानं जायते तेनैव तद्गतं
७१ न्या० को०
५६१