2023-10-30 07:52:35 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

५६०
 
न्यायकोशः ।
 
TIME
 
कलौकिक प्रत्यक्षस्य स्वनिष्ठप्रामाण्य विषयकतया स्वजन्यस्वविषयकप्रत्यक्ष-

सामग्री खनिष्ठप्रामाण्यनिश्चायिका भवति इति मिश्रा आहुः । ज्ञानस्या-

तीन्द्रियतया प्रत्यक्षासंभवेन स्वजन्यज्ञाततालिङ्गकानुमितिसामग्री स्वनिष्ठ-

प्रामाण्यनिश्चायिका भवति इति भट्टा आहुः ( मू० म० १ प्रामा ०

पृ० १२६ )। तदप्रामाण्याग्राहकेत्यत्र पदप्रयोजनमित्थम् । नैयायिकमते

प्रमात्मनुमानेन इदं ज्ञानं प्रमा इत्याप्तवाक्येन च गृह्यते इति सिद्ध-

साधनम् । तद्वारणाय यावत् इति विशेषणम् । अनुमानं तु इदं ज्ञानं

प्रमा समर्थप्रवृत्तिजनकत्वात् इति । वस्तुतस्तु यावत् इति ग्रहस्य विशेष-

णम् । तथा च ज्ञानग्राहकसामग्रीजन्ययावग्रहविषयत्वम् इति फलितम् ।

बाघख्य
इदं ज्ञानमप्रमा इति ज्ञानेन व्यवसायनिष्ठप्रामाण्याविषयीकरणात्
 
तु
 

दोषः । तद्वारणाय अप्रामाण्याग्राहिका इति विशेषणं दत्तम् । तथा च
··

तादृशज्ञानसामग्र्याः साध्यकोट्यनिविष्टत्वात् तथा प्रामाण्यस्याग्रहणेपि न

बाधः इति भावः । ज्ञाननिष्ठाप्रामाण्येत्यत्र ज्ञानं तु यादृशं प्रामाण्यं

प्रकृतानुमिताबुद्देश्यं तादृशप्रामाण्याश्रयः इति विज्ञेयम् । तेन इदं ज्ञानम

प्रमा इत्यनुव्यवसायनिष्ठप्रामाण्यग्राहकस्याप्रामाण्याग्राहकत्वाभावेपि न

स्वतस्त्वहानिः (त० दी० ) ( नील० प्रामा० पृ० ३५) / प्रामाण्ये

स्वतस्त्वं नाम यावत्स्वाश्रयविषयकज्ञानग्राह्यत्वम् । प्रामाण्याश्रयविष-

यकज्ञानं च स्वप्रकाशं तदेव इति गुरव आहुः । ज्ञानग्राहकातिरिक्तान-

पेक्षत्वम् यावत्स्वाश्रयानुमितिग्राह्यत्वम् । प्रामाण्याश्रयानुमितिर्ज्ञातता-

लिङ्गका समर्थप्रवृत्तिलिङ्गकापि इति भट्टा आहुः । मिश्रमते स्वतस्त्वं च

प्रामाण्यग्रह प्रतिबन्ध काभावकालीन यावत्खाश्रयानुव्यवसायग्राह्यत्वम् ( त०
 

प्र० ख० ४ पृ० १३२ ) ( म० प्र० प्रामा० पृ०
 
० ) । प्रामाण्य-
"

ग्रह प्रतिबन्ध काभावकालीनप्रामाण्याश्रयीभूतज्ञानग्राहक सामग्रीग्राह्यत्वं वा ।
"

अथवा विज्ञानसामग्रीजन्यत्वे सति तदतिरिक्त हेत्वजन्यत्वम् । इदं स्वतस्वं

च मुरारिभट्टानां मते उत्पद्यते ( कु० १ ) ( सर्व० पृ० २८३ जैमि० )

(त० मा० ४ ) (सि० च० पृ० ३४ ) । उत्पत्तौ प्रामाण्यस्य स्वत-

स्त्वं नाम कार्यकारणादेव कार्येण सहोत्पत्तिः (अथर्वभाष्य० पृ० १२)
 
७०