This page has not been fully proofread.

न्यायकोशः ।
 
५५९
 

 
मध्ये प्रथमोद्दिष्टस्य प्रमाणस्याधीन इतरेषां निश्चय इति प्रमाणतत्त्वनिश्चय
आवश्यकः । स च प्रमात्वनिश्चयं विना न भवतीति प्रमात्वनिश्चयोपाय
इदानीं चिन्त्यते (चि० १ प्रामा० पृ० ११४ - ११७) । अत्र
विप्रतिपत्तिः प्रमात्वं स्वतो ग्राह्यं परतो वा इति । अन्यत्र त्वेवं विप्रति-
पत्तयः प्रदर्शिताः । ज्ञानप्रामाण्यं तदप्रामाण्याग्राहकयावज्ज्ञानग्राहक-
सामग्रीग्राह्यम् न वा इति । तज्ज्ञानविषयकज्ञानाजन्यज्ञानग्राह्यम् न वा
इति । स्वाश्रयग्राहकेण गृह्यत एव न वा इति । स्वाश्रयेण गृह्यत एव
न वा इति । घटोयम् इति ज्ञानप्रामाण्यमेतज्ज्ञानग्राह्यम् न वा
इति । एतज्ज्ञानग्राहकमात्रग्राह्यम् न वा इति ( चि० १ प्रामा० पृ०
१२१ - १२६ ) । ज्ञानप्रमात्वस्य स्वतो ग्राह्यत्वं च खत एव ( स्वकीयेभ्य
एव ) स्वजनकसामग्री स्वजन्यप्रत्यक्षसामग्री स्वजन्यज्ञाततालिङ्गकानुमिति-
सामग्री एतदन्यतमज्ञानग्राहकसामग्रीग्राह्यत्वम् । अत्र स्वजन्य इति
1 पदद्वयं क्रमेण स्वप्रत्यक्षस्य ज्ञाततायाश्च विशेषणम् । पञ्चम्या जन्यत्वमर्थः
( मू० म० १ प्रामा० पृ० १२६ ) । गुरुभट्टमुरारि मिश्राणां मत-
त्रयसाधारणं स्वतस्त्वं च तदप्रामाण्याग्राहकयावज्ज्ञानग्राहकसामग्रीग्राह्य-
त्वम् ( त० दी० प्रामा० पृ० ३४ ) ( त० कौ० पृ० १८ ) ।
तदर्थस्तु ज्ञाननिष्ठाप्रामाण्याग्राहिका यावती ज्ञानग्राहिका सामग्री
इन्द्रियसंनिकर्षपरामर्शानुव्यवसायादिरूपा तज्जन्यग्रहविषयत्वम् । स च
ग्रहः (प्राथमिकज्ञानग्रहः ) गुरुमते व्यवसाय: । भट्टमते ज्ञाततालिङ्ग-
कानुमितिः । मुरारिमिश्रमते अनुव्यवसाय: (नील० प्रामा० पृ० ३५ ) ।
तत्तद्धर्मप्रकारकज्ञानग्राहकसामग्रीजन्यग्रहत्वव्यापकविषयिताप्रतियोगित्वम्
इति निष्कर्षः । इदमेव ज्ञप्तौ स्वतस्त्वमित्युच्यते ( नील० पृ० ३४ )
। ( सि० च० पृ० ३३ ) । यया कारणसामग्र्या ज्ञानं गृह्यते तथैव तद्गतं
प्रमात्वमपि गृह्यत इति स्पष्टार्थः । अत्र त्रीणि मतानि क्रमेणोक्तानि ।
तथाहिं । ज्ञानग्राहकं च सर्वमते घटमहं जानामि इत्याकारकमेव ज्ञानं
भवति । ज्ञानस्य स्वस्यैव स्वप्रामाण्य विषयकतया स्वजनकसामग्र्येव
खनिष्ठप्रामाण्यनिश्चायिका भवति इति गुरव आहुः । खोत्तरवर्तिस्वविषय-