न्यायकोशः /612
This page has not been fully proofread.
न्यायकोशः ।
n
भ्रमे नातिव्याप्तिः इत्याहु: ( न्या० म० ख० ४ पृ० ३४ ) ( म० प्र० ४
पृ० ६९) । यद्वा तत्संबन्धानुयोगिविशेष्यकत्वावच्छिन्न तत्प्रतियोगिक-
संबन्धावच्छिन्न प्रकारकज्ञानत्वम् । अयमेव सिद्धान्तलक्षणोक्तप्रमात्वे
गदाधरभट्टाचार्याणामाशयः इति प्रतिभाति । अथवा विशेष्यितासंबन्धेन
तद्धर्मबदवच्छिन्नत्वे सति प्रकारितासंबन्धेन तद्धर्मवत्त्वम् । विशेष्यिताप्र-
कारितयोरिव विशेष्यिताप्रकारितासंबन्धेन विशेष्यविशेषणयोरपि पर-
स्परमवच्छेद्यावच्छेदकभावोभ्युपगम्यते इत्यभिप्रायेणेदम् ( मू० म० १
। प्रामाण्य० पृ० १७५ ) । यद्यपि अन्यान्यपि विशेष्यावृत्त्यप्रकारकत्वम्
अगृहीतग्राहित्वं वा सर्वधीयथार्थत्वपक्षे अनुभवत्वजा तेरभावेन स्मरणान्य-
ज्ञानत्वम् विशिष्टज्ञानत्वं वा ( चि० प्रामा० पृ० १२६ ) इत्यादीनि
★ प्रमात्वस्वरूपाणि सन्ति । एतन्मते निर्विकल्पकव्यधिकरणप्रकारक-
ज्ञानयोरनभ्युपगमात् । तथापि तानि मीमांसकादिमतोक्तरीत्या न स्वतो
ग्राह्याणि इति नात्रोदाहृतानि । विशेष्यावृत्त्यप्रकारकत्वादेर्विशेषणस्य
● प्रागनुपस्थितौ तद्वैशिष्टयस्य ज्ञातुमशक्यत्वात् । अत्रेदं बोध्यम् । तद्वति
तत्प्रकारकज्ञानत्वम् तद्वति तद्वैशिष्ट्यज्ञानत्वं वेति प्रमात्वद्वयं च
• निष्कम्पप्रवृत्त्युपयोगि मीमांसकमते स्वतो ग्राह्यं च भवति ( चि०
•प्रामा० पृ० १७०) इति । अनधिगतार्थप्राहित्वं प्रमात्वम् इति मीमांसका
आहुः । तच्च स्वसमानाधिकरणस्वाव्यवहित पूर्ववर्तिस्वसमानाकारज्ञान-
विषयविषयकत्वम् इति निष्कर्षः ( कु० ४ टी० ) (मू० म० प्रामा०
पृ० १७० ) । यथा सत्यरजते इदं रजतम् इति ज्ञानस्य प्रमात्वम् ।
• यथा वा घटे अयं घटः इति ज्ञानस्य प्रमात्वम् । प्राभाकरमते सर्व-
• ज्ञानानां यथार्थत्वात् तत्प्रकारकज्ञानत्वमेव प्रमात्वम् (चि० १ प्रामा० )
( त० प्र० ख० ४ पृ० १३३ ) ( न्या० म० ४ पृ० ३५) । अथात्र
- प्रसङ्गात्प्रामाण्यवादः प्रदश्यते । परमका रुणि कमुनिप्रणीताया मष्टादश-
•प्रेक्षावत्प्रवृत्त्यर्थं प्रमाणप्रमेय संशय तत्त्वज्ञानान्निःश्रेयसाधिगमः ( गौत
निःश्रेयसप्रयोजिकायामान्वीक्षिक विद्य
सू० १११११ ) इति सूत्रेण प्रतिपादितानां षोडशपदार्थानां
विद्यास्थानेष्वभ्यर्हिततमायां