2023-10-30 07:50:46 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।.
 
<प्रमाणान्तरम् - >
( स्वतन्त्रं प्रमाणम्) यदसाधारणं सहकारि समासाद्य

मनो बहिर्गोचरां प्रमां जनयति तत् । यथा प्रत्यक्ष इन्द्रियं प्रमाणान्त-

रम् । संशयस्वप्नौ तु न प्रमे इति न निद्रादेः प्रमाणान्तरत्वम् (चि० २

पृ० ३५ ) ( कु० टी० ४ ) ।
 
C
 
1.
 
प्रमाता -

 
<प्रमाता>
१ यस्येप्साजिहासाप्रयुक्तस्य प्रवृत्तिः सः ( वात्स्या० १११११

प्रस्तावना ० ) । स च प्रमाता आत्मा ( प्रशस्त० पृ० २६ ) । यथा चैत्रो

घटं प्रमिनोतीत्यादौ चैत्रः प्रमाता । अत्र प्रमातृत्वं च प्रमासमवायित्वम् ।

एतच्चाकारणत्वेपि प्रमाया ईश्वरस्य सिद्धम् ( कु० टी० ४/५ ) ।

अत्रेदं बोध्यम् । प्रमाता स्वतन्त्रः । स्वातन्त्र्यं च कारकफलोपभोक्तृत्वम्

( न्या० वा० १ पृ० ९) इति । २ शुद्धचेतनो वृत्तिसाक्षी प्रमाता

इति सांख्या आहुः । ३ मायावादिनस्तु अन्तःकरणवृत्तिप्रतिबिम्बि-

तम् तदवच्छिन्नं वा चैतन्यमेव प्रमाता इत्याहुः ( वाच० ) ।

प्रमात्वम् - तद्वति तत्प्रकारकज्ञानत्वम् ( गौ० वृ० १।१।४) । तद्वति तद्वै-

1 शिष्ट्यज्ञानत्वं वा ( चि० १ प्रामा० पृ० १७० ) । आद्यलक्षणे दलद्वय-

। स्वार्थश्च तद्वन्निष्ठविशेष्यता निरूपिततन्निष्ठप्रकारताशाल्यनुभवत्वम् ( त ०

प्र० ख० १ पृ० १४ ) ( वाक्य ० ) । वस्तुतस्तु तद्वतीत्यत्रावच्छिन्नत्वमेव

सप्तम्यर्थः । अन्वयश्चास्य विशेष्यितासंबन्धेन तत्प्रकारकत्वे । तथा च

विशेष्यितासंबन्धेन तदवच्छिन्ना या तत्प्रकारिता तच्छाल्यनुभवत्वं
 
C
 
0
 
P
 

तत्प्रमात्वम् इति फलितम् । इदमत्रैतत्प्रकारकम् इति प्रतीत्या विशेष्य-

स्यापि विशेष्यिंतासंबन्धेन तत्प्रकारितायामवच्छेदकत्वात् लक्षणसमन्वयः ।

रङ्गरजतयोः इमौ रजतरङ्गौ इति विपरीतभ्रमे च रजतावच्छिन्नं न

( रजतत्वप्रकारकत्वम् अपि तु रङ्गावच्छिन्नम् इति न तत्रातिव्याप्तिः

। ( मू० म० प्रामा० सिद्धान्त० पृ० ४०३ ) । अथवा विशेष्य-

तावच्छेदेन तद्धर्मावच्छिन्नप्रकारितासंबन्धेन तद्धर्मवत्त्वम् । विशेष्यता-

1. संबन्धेन तद्विशिष्टत्वे सति तद्वत्त्वम् । विशेष्यतासंबन्धेन तद्वदवच्छिन्ना

या प्रकारिता तच्छानुभवत्वमिति वा ( मू० म० १ ) । तान्त्रिकास्तु

i तद्वद्विशेष्यकत्वावच्छेदेन तत्प्रकारकत्वम् । तेन वढिगुञ्जयोर्गुजावगाहि-
t