2023-10-30 07:50:13 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
शब्दश्चेति द्वे प्रमाणे इति श्रीमदानन्दतीर्थभगवत्पादाचार्याः प्रादुः ।
-

एतन्मते त्वनुमानं श्रुत्यनुसारित्वेन प्रमाणम् न तु स्वातन्त्र्येणेति बोध्यम् ।

मानुषदैवभेदेन द्विविधं प्रमाणम् ( याज्ञ० २ । ११६ ) इति व्यवहार-

शास्त्रज्ञा आहुः । प्रत्यक्षमनुमानं शाब्दं चेति मन्वादयः आहुः ।

अत्र अलौकिके विषये वेदो ब्रह्मसूत्रं भगवद्गीता श्रीमद्भागवतमिति

प्रमाणचतुष्टयमिति वाल्लभा मन्यन्ते । प्रत्यक्षमनुमानमाप्तवचनमिति त्रीणि

प्रमाणानि इति सांख्या योगिनो मायावादिवेदान्तिनश्चाहुः । तत्र सांख्य-

पातञ्जलमायावादिमते अन्तःकरणवृत्तीनां पौरुषेयचित्तवृत्तिप्रकाशरूप-

बोधे कारणत्वम् । अन्तःकरणवृत्तिषु च ज्ञानत्वारोपेण तत्करणस्वमिन्द्रि-

याणाम् इति विवेकः ( सां प्र० भा० ) ( पात० सू० ) । प्रत्यक्षा-

नुमानोपमानानि त्रीणि इति नैयायिकैकदेशिन आहुः । प्रत्यक्षानुमानो

पमानशब्दाश्चत्वारि प्रमाणानि इति गौतमप्रधाना नैयायिका आहुः ।

शब्दात्त्येमि इति विलक्षणप्रतीतेर्व्याप्तिनिरपेक्षादाकाङ्क्षादिज्ञानादुत्पत्तेः

तत्करणतया शब्दस्यातिरिक्तं प्रामाण्यं सिद्ध्यति इति नैयायिकसिद्धान्तः ।

तत्र शब्दस्य स्वतन्त्रप्रामाण्यमुक्तम् आप्तोपदेशसामर्थ्याच्छन्दादर्थसंप्रत्ययः

( गौ० २।१।५२ ) इति । प्रत्यक्षानुमानोपमानशब्दा अर्थापत्ति

पञ्च प्रमाणानि इति प्राभाकरा आहुः । प्रत्यक्षानुमानोपमानशब्दा

अर्थापत्तिरनुपलब्धिश्चेति षट् प्रमाणानि इत्यपरे भट्टा वेदान्तिभेदाश्चाहुः ।

..संभवैतिह्ये अप्यतिरिक्त प्रमाणे इति पौराणिका आहुः । चेष्टाप्यतिरिक्तं

प्रमाणम् इति तान्त्रिका अमन्यन्त ( ता० २० श्लो० ८-११)

[० च० १ पृ० २० ) । अनुभूतिरपि प्रमाणम् इति

आहुः । केचित्तु शकुनलिप्यादिकमपि प्रमाणान्तरमिच्छन्ति । उपक्रमो

नुमानमेव नातिरिक्तं प्रमाणम् इति ( प्र० प० पृ० ५ ) ( प्र० च०

पृ० ४४ ) । २ प्रमा ( यथार्थज्ञानम् ) । यथा स्वतः प्रामाण्यम्
 

( सि०
 
a
 
प्राभारा
 
परतः प्रामाण्यम् इत्यादौ
 
प्रमाणपदार्थः
 

 
प्रमा । ३
सत्यवादी ।

४ इयत्ता । ५ परिच्छेदः । ६ हेतुः । ७ प्रमाता ( मेदिनी० ) ।

८ विष्णु: ( विष्णुस० ) ।
 
6
 
d