This page has not been fully proofread.

न्यायकोशः ।
 
[ख ] इतरधर्मस्येतरस्मिन्प्रयोगायादेशः । ( वाच ० )
 
[ग] अन्यत्रैव प्रणीतायाः कृत्स्नाया धर्मसंततेः । अन्यत्र कार्यतः
प्राप्तिरतिदेशोभिधीयते ।
on of) 1817
 
.
 

 
4
 
[घ ] १ प्राकृतात्कर्मणो यस्मात्तत्समानेषु कर्मसु । धर्मोपदेशो येन
स्यात्सोतिदेश इति स्मृतः ( जै० न्या० अ० ७१५।१।
अधि०१ ) । २ स्वविषयमुल्लुङ्क्षयान्यविषय उपदेशः । यथा-
कालोपपाते तदैवते तदैवतं हुत्वा तद्वातिदिश्यानेन जुहुयात्
( काव्या० श्रौ० २५/२४ ) इत्यादौ – अतिदेशशब्दार्थः । ३
उपदेशः । यथा - इत्यर्चितः स भगवानतिदिश्यात्मनः पदम्
( भाग० ४।९।२८) इत्यादौ - अतिदेशशब्दार्थः । 902
 
अतिप्रसङ्गः – १ अतिव्याप्तिः । २ प्रकृतादन्यत्र प्रसञ्जनम् ।
अतिरिक्तत्वम् — व्यतिरेक
शब्दस्यार्थवदस्यार्थोनुसंधेयः ।
- -
 
-
 
अतिव्याप्तिः—( लक्षणदोषः ) १ [ क ] अलक्ष्यवृत्तित्वम् । यथा गोः
शृङ्गित्वस्य लक्षणत्वेतिव्याप्तिः । ( त० दी० ) ( ल० व० )
[ ख ] लक्ष्यतावच्छेदकसमानाधिकरणत्वे सति लक्ष्यतावच्छेदकावच्छि-
नप्रतियोगिताकभेदसामानाधिकरण्यम् ( न्या० बो० ) । यथा मनु-
ष्यो ब्राह्मण इति लक्षणस्य शूद्रेतिव्याप्तिः ( त० कौ० ) । २ व्याप्य -
 
-
 
१ यथा मीमांसायां प्रकृतिवद्विकृतिः कर्तव्येत्यादिः ।
 
२ अत्र मनुष्यत्वं हि लक्ष्यतावच्छेदक ब्राह्मणत्वाश्रये ब्राह्मणत्वाश्रयभिन्ने च शूद्रा.
दावपि बर्तत इत्यतिव्याप्तं भवतीति तात्पर्यम्
 

 
३ इदं च लक्षणस्य ( व्यतिरे कि हेतोः ) व्यावर्तकत्वाभिप्रायेण । विस्तरस्तु 'लक्ष-
णम् ' इत्यत्र द्रष्टव्यः ।
 
* अत्रेदं बोध्यम् । प्रकृतिभूतदर्शकार्यादेरङ्गकार्याणि प्रयाजादीनि विकृतौ पश्वादियागेति
दिश्यन्त इति ।