2023-10-30 07:48:42 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

५५४
 
न्यायकोशः ।
 
1
 
yaman
 
TERLAL
 
। ( विलम्बेन प्रमोत्पत्तिः । अतः इन्द्रियसंयोगादिरेव करणम् न प्रमात्रादि

( त०] भा० पृ० ५ ) । [ग] साधनाश्रयाव्यतिरिक्तत्वे सति प्रमा-

व्याप्तम् । अनेन च प्रतितन्त्र सिद्धान्तसिद्धं परमेश्वरप्रामाण्यं संगृहीतम्

( सर्व० पृ० २३५ अक्ष० ) ( कु० टी० ४।५ ) । अत्र सूत्रम् मन्त्रायु-

र्वेदप्रामाण्यवच तत्प्रामाण्यमाप्तप्रामाण्यात् ( गौ० २११९६८ ) इति ।

[ घ] प्रमायोगव्यवच्छिन्नम् । प्रमया सहायोगव्यवच्छेदेन संबन्धि ।

[ङ ] अनधिगतार्थगन्तृ प्रमाणम् इति भट्टमीमांसका आहुः ( सि०

च० १ पृ० २० ) ( कु० टी० ४ ! ५ ) ( तत्त्वसंख्या ० ) । तदसत् ।

एकस्मिन्नेव घटे घटोयम् घटोयम् घटोयम् इति धारावाहिकप्रत्ययस्थले

अधिगतार्थगन्तॄणामप्रामाण्यापत्तेः ( सि० च० १ पृ० २० ) (त०

भा० १ पृ० ५ ) । अत्र विवदन्ते । अविसंवादि विज्ञानं प्रमाणमिति

सौगताः । अनुभूतिः प्रमाणं सा स्मृतेरन्येति केचन ॥ अज्ञातचरतत्त्वार्थ-

निश्चायकमथापरे । प्रमेयव्याप्तमपरे प्रमाणमिति मन्यते ॥ प्रमानियत-

सामग्री प्रमाणं केचिदूचिरे ( ता० र० श्लो० ५-७) इति । न्यायनये

प्रमाणानि चत्वारि । प्रत्यक्षम् अनुमानम् उपमानम् शब्दश्च (गो०

११११३) इति । यत्प्रमाणं तत्प्रत्यक्षादिचतुष्टयान्यतमम् इति वाक्यार्थः ।

तेन न्यूनाधिकसंख्याव्यवच्छेदलाभः ( म० प्र० १ पृ० ७ ) । अत्रेदं

बोध्यम् । नित्यप्रमाया आश्रयः ( समवायी) प्रमाणं ईश्वरः । अनित्य-

प्रमायास्तु करणं प्रत्यक्षादिचतुष्टयम् ( ता० २० श्लो० ४) इति ।
*

च प्रमीयते परिच्छिद्यते अनेनेति प्रमाणम् । तच्च द्विविधम् मानुषं

दैविकं च ( मिताक्षरा अ० २ श्लो० २२ ) । प्रकारान्तरेण प्रमाणं

द्विविधम् । शब्दोपजीवि शब्दानुपजीवि च ( कु० टी० ) । इदानीं

मतभेदेन प्रमाणसंख्या कथ्यते । प्रत्यक्षमेकमेव प्रमाणम् इति चार्वाका

आहुः । प्रत्यक्षमनुमानं चेति द्वे प्रमाणे इति कणादप्रधाना वैशेषिकाः

मन्यन्ते । एतन्मते शब्दोपमानयोरनुमान विधयैव प्रामाण्यम् न तु स्वात-

ध्येणेति बोध्यम् ( त० कौ० पृ० ८) । अत्र भाष्यम् । शब्दादी-

नामप्यनुमानेन्तर्भावः । समान विधित्वात् । यथा प्रसिद्धसमयस्यासंदिग्ध
 
ha
 
नह
 
20