2023-10-30 07:48:13 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
प्रमा इति पातञ्जला आहुः (पात० व्या० भा० ) (सां० भा० १९८७ ) ।

न्यायनये प्रमा द्विविधा । नित्या अनित्या च । तत्र नित्या भगवतः ।
"

अनित्या जीवस्य ( ता० र० श्लो० ४ ) ।
 

 
<
प्रमाणबाधितार्थकप्रसङ्गः - >
तर्कविशेषः । शिष्टं तु तदन्यबाधितार्थप्रसङ्ग-

शब्दव्याख्याने संपादितम् तत् तत्र द्रष्टव्यम् । अत्र व्युत्पत्तिः प्रमाणेन

बाधितो यस्य इति ( कपू ) ।
 
प्रमाणम् -

 
<प्रमाणम्>
१ [क] प्रमाता येनार्थं प्रमिणोति तत् (वात्स्या० ११ १/१

प्रस्तावना ) । अत्र प्रमीयतेनेन इति व्युत्पत्तिद्रष्टव्या । प्रमाणस्य

स्वभावस्तु सतः प्रकाशकं प्रमाणमसदपि प्रकाशयति ( वात्स्या० ९१९ । ११।१

प्रस्तावना ) इति । तल्लक्षणं तु प्रमाणत्वमेव । तच्च तद्वति तत्प्रकारक-

त्वरूपप्रकर्षविशिष्टज्ञानकारणत्वम् ( गौ० वृ० १ । १ । ३ ) । यद्वा अनु-

भवत्वव्याप्यजात्यवच्छिन्नप्रमावृत्तिकार्यतानिरूपितकारणताशालित्वे सति

व्यापारवत्त्वम् ( त० प्र० ख० १ पृ० १४ ) । अथवा अनधिगतार्थ-

कानुभवकारणत्वम् । तच्च गृहीतग्राहीतरानुभवकारणत्वम् इति मीमांसका

आहुः ( कु० टी० ३ ) ( त० प्र० ख० ४ पृ० ९) । स्वसमाना-

धिकरणस्वाव्यवहितपूर्ववर्तिस्वसमानाकारनिश्चयविषयविषयकेतरतद्वद्विशे-

ष्यकतत्प्रकारकानुभवकारणत्वम् इति यावत् ( कु० टी० ३ ) ।

सांख्यास्तु असंदिग्धाविपरीतान धिगत विषयबोधसाधनत्वम् इत्याहुः ।

अत्र द्वयोरेकतरस्य वाप्यसंनिकृष्टार्थपरिच्छित्तिः प्रमा तत्साधकं यत्

तत् त्रिविधं प्रमाणम् (सांख्यसूत्रम् ११८७) इति । तदर्थश्च असंनि-

कृष्टः प्रमातर्यनारूढः अनधिगत इति यावत् ( सां० भाष्य ० ) ।

[ख] प्रमायाः करणम् ( न्या० म० पृ० १ ) (त० सं० ) (त०

भा० पृ० ४ ) ( त० कौ० पृ० ८) । यथा चक्षुरादि प्रत्यक्षात्मक-

प्रमायाः प्रमाणम् । अनुमितौ च लिङ्गदर्शनं प्रमाणम् । उपमितौ च

सादृश्यज्ञानं प्रमाणम् । शाब्दे च वेदाः प्रमाणमित्यादौ शब्दः प्रमाणम् ।
'

अत्रेदं बोध्यम् । इन्द्रियसंयोगांदिरेव प्रमाकरणम् । न तु प्रमातृप्रमेया-

दीनि । सत्यपि प्रमातरि प्रमेये च प्रमानुत्पत्तेः । इन्द्रियसंयोगादौ तु सत्य-

७० न्या० को०
 

 
Si
 
-