This page has not been fully proofread.

न्यायकोशः ।
 
प्रमा इति पातञ्जला आहुः (पात० व्या० भा० ) (सां० भा० १९८७ ) ।
न्यायनये प्रमा द्विविधा । नित्या अनित्या च । तत्र नित्या भगवतः ।
" अनित्या जीवस्य ( ता० र० श्लो० ४ ) ।
 
प्रमाणबाधितार्थकप्रसङ्गः - तर्कविशेषः । शिष्टं तु तदन्यबाधितार्थप्रसङ्ग-
शब्दव्याख्याने संपादितम् तत् तत्र द्रष्टव्यम् । अत्र व्युत्पत्तिः प्रमाणेन
बाधितो यस्य इति ( कपू ) ।
 
प्रमाणम् - १ [क] प्रमाता येनार्थं प्रमिणोति तत् (वात्स्या० ११ १/१
प्रस्तावना ) । अत्र प्रमीयतेनेन इति व्युत्पत्तिद्रष्टव्या । प्रमाणस्य
स्वभावस्तु सतः प्रकाशकं प्रमाणमसदपि प्रकाशयति ( वात्स्या० ९१९ । ११।१
प्रस्तावना ) इति । तल्लक्षणं तु प्रमाणत्वमेव । तच्च तद्वति तत्प्रकारक-
त्वरूपप्रकर्षविशिष्टज्ञानकारणत्वम् ( गौ० वृ० १ । १ । ३ ) । यद्वा अनु-
भवत्वव्याप्यजात्यवच्छिन्नप्रमावृत्तिकार्यतानिरूपितकारणताशालित्वे सति
व्यापारवत्त्वम् ( त० प्र० ख० १ पृ० १४ ) । अथवा अनधिगतार्थ-
कानुभवकारणत्वम् । तच्च गृहीतग्राहीतरानुभवकारणत्वम् इति मीमांसका
आहुः ( कु० टी० ३ ) ( त० प्र० ख० ४ पृ० ९) । स्वसमाना-
धिकरणस्वाव्यवहितपूर्ववर्तिस्वसमानाकारनिश्चयविषयविषयकेतरतद्वद्विशे-
ष्यकतत्प्रकारकानुभवकारणत्वम् इति यावत् ( कु० टी० ३ ) ।
सांख्यास्तु असंदिग्धाविपरीतान धिगत विषयबोधसाधनत्वम् इत्याहुः ।
अत्र द्वयोरेकतरस्य वाप्यसंनिकृष्टार्थपरिच्छित्तिः प्रमा तत्साधकं यत्
तत् त्रिविधं प्रमाणम् (सांख्यसूत्रम् ११८७) इति । तदर्थश्च असंनि-
कृष्टः प्रमातर्यनारूढः अनधिगत इति यावत् ( सां० भाष्य ० ) ।
[ख] प्रमायाः करणम् ( न्या० म० पृ० १ ) (त० सं० ) (त०
भा० पृ० ४ ) ( त० कौ० पृ० ८) । यथा चक्षुरादि प्रत्यक्षात्मक-
प्रमायाः प्रमाणम् । अनुमितौ च लिङ्गदर्शनं प्रमाणम् । उपमितौ च
सादृश्यज्ञानं प्रमाणम् । शाब्दे च वेदाः प्रमाणमित्यादौ शब्दः प्रमाणम् ।
'अत्रेदं बोध्यम् । इन्द्रियसंयोगांदिरेव प्रमाकरणम् । न तु प्रमातृप्रमेया-
दीनि । सत्यपि प्रमातरि प्रमेये च प्रमानुत्पत्तेः । इन्द्रियसंयोगादौ तु सत्य-
७० न्या० को०
 

 
Si
 
-