This page has not been fully proofread.

५५२
 
न्यायकोशः ।
 
यज्ज्ञानं तत्प्रमात्यानधीनप्रमात्वकत्वम् ( म० प्र० १ पृ० ४ ) । स्मृतौ
तु तादृशपूर्वानुभवप्रमात्वाधीनप्रमात्वकत्वेन स्मृतिव्यावृत्तिः। अत्रोभयत्र
स्वपदं फलीभूतज्ञानपरमेव । अत्रेयमभिसंधिः । प्रमात्वस्य स्मृतिसाधार-
णत्वे स्मृतिकारणानुभवस्यापि प्रमाणान्तरत्वापत्त्या शास्त्रे प्रमाणव्यवहा-
रौपयिकं रूपमनुभवत्वघटितमेवानुमन्यन्ते तान्त्रिकाः ( दि० गु०
पृ० २११ ) । अथ वा यज्जातीय विशिष्टज्ञानत्वावच्छेदेन समानाकार-
निश्चयोत्तरत्वं तज्जातीयान्ययथार्थज्ञानस्यैवागृहीतग्राहिलेन प्रमात्वम् ।
अत एव धारावाहिप्रत्यक्षव्यक्तीनां समानाकारग्रहोत्तरवर्तित्वेपि न
मिति । अयं चात्र विशेषः । अज्ञायमानकरणजन्यतत्त्वानुभवः
तासां प्रमात्वहानिः । हानिस्तु समानाकारानुभवसमुत्थानां स्मृतीना-
प्रत्यक्षप्रमा । ज्ञायमानकरणजन्यतत्त्वानुभवोनुमितिमा इति । [ङ
]
•विषयताश्रयावृत्त्यप्रकारकानुभवः । [च ] यत्प्रकारिका या विषयता
तत्प्रकारसमानाधिकरणविषयताकः स्वप्रकारसमानाधिकरणविषयताको
वा अनुभवः । अत्र प्रकारपदं धर्मपरम् । तद्धर्मसमानाधिकरणतद्विषय-
ताक इत्यर्थः । एतल्लक्षणद्वये इदं रजतं रङ्गं च इत्यादौ प्रकारभेदेन
विषयताभेदाभावेपि न क्षतिः इति ध्येयम् । अतिरिक्तविषयतापक्षे
( विशेष्यतावच्छेदकतातिरिक्ता प्रकारता विषयतापि च सविषयका इति
पक्षे ) इदं लक्षणद्वयं ( ङ च इत्यत्र स्थितम् ) स्वीकृतम् इति ज्ञेयम्
( मू० म० १ प्रामा० पृ० ४१६ - ४१९ ) । [छ ] विशेष्यनिष्ठा-
•त्यन्ताभावाप्रतियोगिप्रकारक विषयताप्रतियोगी [ज ] विशेष्यनिष्ठा-
त्यन्ताभावप्रतियोगिप्रकारानवच्छिन्नविषयता प्रतियोगी वा
 
षयतासमानाधिकरणात्यन्ताभावप्रतियोगिप्रकारकविषयत्वाप्रतियोगी वा
 
[झ ] वि.
 
[ञ ] विषयतासमानाधिकरणात्यन्ताभावप्रतियोगिप्रकारानवच्छिन्नविष-
यताप्रतियोगी वा अनुभवः ( चि० १ प्रामा० पृ० ४००-४२०)।
 
एकधर्मावच्छिन्नतत्तदभावोभयवन्निष्ठविशेष्यताकं द्रव्यं रजतम् इत्यादि-
ज्ञानं न लक्ष्यम् इति मते छ ज इत्यादीनि लक्षणानि ( मू० म० १
प्रामा० पृ० ४२० ) । वृत्तीद्धो बोधः प्रमा इति मायावादिनो वदन्ति ।
अनधिगतार्थस्य वस्तुनोवधारणम् इति सांख्या आहुः । पुरुषनिष्ठबोधः