न्यायकोशः /605
This page has not been fully proofread.
न्यायकोशः ।
५५१
प्रभेदः - १
सामान्यधर्मव्याप्यावान्तरधर्मविशिष्टः । यथा घटो द्रव्यप्रभेदः
इत्यादौ । २ स्वसमभिव्याहृतपदार्थतावच्छेदकधर्मः । यथा अनित्या
पृथिवी त्रिविधा शरीरेन्द्रियविषयभेदात् इत्यादौ ( वाक्य० १ पृ० ३ ) ।
३ अन्योन्याभावः । अत्र भेदप्रभेदशब्दयोरेकार्थकत्वम् इत्यभिप्रायेणे-
दमुक्तम् इति विज्ञेयम् ।
प्रमा – ( अनुभवः ) [ क ] यदर्थविज्ञानं सा प्रमा ( वात्स्या० १११११
प्रस्तावना० ) । सा च द्रव्यादिविषयं ज्ञानम् ( यथार्थम्) ( प्रशस्त ०
पृ० २६ ) । लक्षणं च वक्ष्यमाणं प्रमात्वमेव इति विज्ञेयम् । प्रमात्वस्य
स्वतोग्राह्यत्वादिविचारः प्रमात्वशब्दे दृश्यः । [ख ] तत्त्वानुभवः ।
[ग] यत्र यदस्ति तत्र तस्यानुभवः । तद्वति तत्प्रकारकानुभवो वा
(चि० १ पृ० ४०० ) (त० सं० ) । फलितार्थस्तु तद्वद्विशेष्यक-
त्वावच्छिन्नतत्प्रकारकताशाल्यनुभवः इति । विशेष्यितासंबन्धेन तदव-
च्छिन्ना या तत्प्रकारिता तच्छाल्यनुभवः इति वा । तेन रजतरङ्गयोः इमे
रङ्गरजते इत्यादिविपरीतसमूहालम्बनभ्रमे नातिव्याप्तिः ( मू० म० १
प्रामा० पृ० ४०३)। निर्विकल्पकज्ञानं तु प्रमा अप्रमा एतद्वहिर्भूतमेव ।
व्यवहारानङ्गत्वात् (चि० १ प्रामा० पृ० ४०२ ) । एवं च निर्वि-
कल्पकं प्रमालक्षणालक्ष्यमेवेति तस्य प्रकारिता विशेष्यितादिशून्यत्वेपि न
तत्राव्याप्तिशङ्का इति भावः । [घ ] यथार्थानुभव: ( ता० २० )
( त० मा० ) ( न्या० म० १ पृ० १ ) ( त० सं० ) ( त०
पृ० ७ ) । यथा रजते इदं रजतम् इति प्रत्यक्षं प्रमा ( त० सं० ) ।
अत्र याथार्थ्यं च तद्वति तदवगाहित्वम् (न्या० म० १ ) ( त० सं० ) ।
तद्वद्विशेष्यकत्वे सतीत्यर्थः। भवति हि रजते इदं रजतम् इति ज्ञानं रज-
तत्ववति जतत्वावगाहि इति लक्षणसमन्वयः ( न्या० म० ) ( त०
प्र० १ पृ० १० ) । अत्राहुरुदयनाचार्याः यथार्थानुभवो मानमन-
पेक्षतयेष्यते ( कु० ४।१) इति । अत्र मानशब्दस्यार्थः प्रमा इति
ज्ञेयम् । अत्र प्रयोगश्चेत्थम् । यथार्थानुभवः प्रमापदवाच्यः अनपेक्ष-
वात् इति । अनपेक्षत्वं च स्वसमानाधिकरणं स्वसमानविषयकं च
कौ ०
HISPAN
0