न्यायकोशः /604
This page has not been fully proofread.
न्यायकोशः ।
प्रध्वंस: - १ उत्पत्तिमानविनाशी प्रध्वंस: ( सर्व० सं० पृ० २३२
अक्षपा० ) । २ अतीतावस्था इति सांख्या आहुः ।
प्रपञ्चः–१ विस्तारः । २ वैपरीत्यम् । ३ प्रतारणम् । ४ संसारः
( वाच ० ) । अत्र वल्लभीया वेदान्तिनो मन्यन्ते । प्रपञ्चो भगवत्कार्यः ।
संसारस्तु मायाकार्यः । तथा च प्रपञ्चस्य स्थावरजङ्गमात्मकस्य भगव-
कार्यत्वेन सत्यत्वम् । संसारस्य त्वहंताममतात्मकस्य मायाकार्यत्वा-
न्मिथ्यात्वमेव । एवं च प्रपञ्चसंसारयोर्भेद एव इति ।
प्रबन्धः - १ संदर्भः । २ ग्रन्थादेः रचनम् ।
प्रभवः – १ प्रथमप्रकाशः । यथा हिमवतो गङ्गा प्रभवतीत्यादौ प्रभव-
त्यर्थः । अत्र भुवः प्रभवः ( पा० सू० १/४/३१) इत्यनेनापादान-
संज्ञा । तदर्थश्च यत्संबन्धात्प्रभवनं प्रथमप्रकाशः स प्रभवः इति ( ग०
• व्यु० का० ५ पृ० १०८) । अत्र प्रभवत्यस्मिन् इति प्रभवः इति
व्युत्पत्त्या प्रथमप्रकाशस्थानम् इत्यर्थो लभ्यते ( वाच० ) । अन्यतः
सिद्धस्य प्रथमोपलम्भस्थानम् इति हेमचन्द्र आह । अत्र प्रकाशः
आद्यबहि: - (भूखण्ड-) संयोगः धात्वर्थः । संयोगनाशाव्यवहितोत्तर-
क्षणवृत्तित्वं पञ्चम्यर्थः । आख्यातार्थ आश्रयत्वम् । तथा च हिमालय-
•संयोगध्वंसाव्यवहितोत्तरक्षणवृत्त्याद्य पृथिवीसंयोगाश्रयत्ववती गङ्गा इति
बोध: । यद्वा पञ्चम्यर्थः संबन्धाधीनत्वम् । तस्य तादृशक्रियायां प्रभव-
त्यर्थे प्रथमप्रकाशे अन्वयः । संबन्धे च हिमवदादेः प्रकृत्यर्थस्यान्वयः
( ग० व्यु० कार० ५ पृ० १०८) ।एवम् वल्मीकाप्रात्प्रभवति
ऊर्ध्वदेशसंयोगः प्रभवत्यर्थः । अन्यत्समानम् ( का० व्या० पृ० १०) ।
धनु:खण्डमाखण्डलस्य (मेघदू० पू० १५) इत्यादावप्यूझम् । अत्र
२ संवत्सरविशेषः इति मौहूर्तिका वदन्ति ।
-
प्रभृतिः - आदिः । यथा तदाप्रभृत्येव वनद्विपानाम् ( रघु० स० २
श्लो० ३८) इत्यादौ । यथा वा मनुप्रभृतिभिर्मान्यैर्मुक्ता यद्यपि राजभिः
( रघु० स० ४ श्लो० ७) इत्यादौ ।