2023-10-30 07:45:24 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
५४९
 
धातूनामुत्तरदेशसंयोगानुकूलव्यापारानुकूलव्यापारार्थकानां द्विकर्मकत्वम् ।

संयोगस्य फलतावच्छेदकः संबन्धो ग्रामनिष्ठः । तदनुकूलव्यापारश्चा-

जानिष्ठः । प्रधानव्यापारजन्यफलाश्रयत्वादजा प्रधानम् । तत्र लादयो

भवन्ति । प्रधानकर्मण्याख्येये लादीना हुर्द्विकर्मणाम् इति भाष्योक्तेः ।

गां दोग्धि पय इत्यत्र दुहेरन्तः स्थितद्रवद्रव्य निष्ठविभागानुकूलव्यापारानु-

कूलव्यापारार्थकत्वे गोपयसोरुभयोरपि कर्तुरीप्सिततमं कर्म इति सूत्रेण

कर्मत्वम् । तत्र गोः कर्तृव्यापारजन्यफलाश्रयत्वात् प्रधानकर्मत्वम् । पयसः

कर्तृव्यापारप्रयोज्यविभागफलाश्रयत्वात् गौणकर्मत्वम् । अत्र गोर्विभागा-

श्रयत्वेन तु न कर्मत्वम् । पयोनिष्ठविभागीयसंबन्धस्यैव फलतावच्छेदक-

त्वात् । तत्त्वेनानुद्देश्यत्वाच्च । उक्तप्राधान्यं च गोः इति तत्र लादयः । एवम्

अन्येषामपि याचिदण्ड्यादीनां द्विकर्मकत्वं बोध्यम् । तत्र निदर्शनम् । देव-

दत्तेन ग्राममजा नीयते गौर्दुह्यते पय इत्यादौ च अजाया गोश्व प्रधा-

नकर्मत्वेन लादिनाभिहितत्वात्तद्वाचकपदोत्तरं प्रथमैव भवति न तु

द्वितीया इति ( ल० म० पृ० ९० ) । अत्रायं विशेषः । कर्तुरीप्सित-

तमं कर्म इत्यनेन गोः प्रधानकर्मत्वम् । तत्र लादयः । अकथितं च

(पा० सू० १/४/५१ ) इति सूत्रेण तु गोरपादानत्वाद्यविवक्षायां

पूर्वोक्तप्राधान्यानाश्रयत्वादप्रधानकर्मत्वं विधीयते । गौणकर्मणि गवादौ

लादयो भवन्ति । अप्रधाने दुहादीनां ण्यन्ते कर्तुश्च कर्मणः इति

प्रामाण्यात् । अत्र पक्षे द्रवद्रव्यविभागानुकूलव्यापारमात्रं दुहेरर्थः इति

( ल० म० सुब० कार० २ पृ० ९१ ) ( ग० व्यु० कार० २

पृ० ४४ ) । अत्रायं भावः । तादृशविभागानुकूलव्यापारस्य कर्तृनिष्ठ-

स्वेन विभागस्य तु पयोनिष्ठत्वेन च गोः कर्मत्वाप्राप्तौ अकथितं च

इत्यनेन क्रियाजन्यफलशालित्वादन्यदेव गौणं कर्मत्वं विधीयते इति ।

 
<
प्रधानजय: - >
( मधुप्रतीकसिद्धिः ) प्रकृतिविकारेषु सर्वेषु वशित्वम् ( सर्व०
 

सं० पृ० ३८५ पातञ्ज ० ) ।
 
प्रधानम् -

 
<प्रधानम्>
१ मुख्यम् । २ श्रेष्ठम् । ३ प्रशस्तम् । ४ सचिवः । ५ सेना-

पत्यध्यक्षः । ६ मूलप्रकृतिः इति सांख्या आहुः ।