न्यायकोशः /60
This page has been fully proofread once and needs a second look.
न्यायकोशः ।
किं वदसि बुध्यत एव नेत्याद्याविष्करणेन ज्ञातुं शक्यत इति
(गौ० वृ० ५/६०) । अत्र अविज्ञानमित्यस्यार्थस्तु वाक्यार्थस्या-
बोध इति । ( नील० )
<अणुः
भोक्तुमशक्या अणवः । ( सर्वद० पृ० ७२ आर्हत० )
<अणुत्वम्
परिमाणविशेषः । स च परमाणौ द्व्यणुके च तिष्ठति ।
<अतद्गुण
( बहुव्रीहिसमासः ) [ क ] यो बहुव्रीहिः स्वार्थस्या-
न्वयिनि स्वार्थघटकस्याप्यर्थस्यान्वयबोधनेऽसमर्थः स इति प्राचीना
आहुः । यथा दृ[^१]ष्टसागरमानय चित्रगुमानयेत्यादौ च । ( श० प्र० )
[ख ] यत्र स्वार्थस्योपलक्षणतया विधेयान्वयः सः । यथा - चित्रगुरि-
त्यादौ । (त० प्र० ख० ४ पृ० ४९ )
अत
[^१ ]अत्र दृष्टसागरमानय चित्रगुमानयेत्यादौ च गुणीभूतसमुद्रगवादीनामानयनेन्व-
यासंभवेनातद्गुणसं विज्ञानोयं बहुव्रीहिरिति । २ स चातिदेशः षोढा-शा-
स्वातिदेशः कार्यातिदेशः निमित्तातिदेशः व्यपदेशातिदेशः तादात्म्यातिदेशः
रूपातिदेशश्चेति । उदाहरणानि शब्दकौस्तुभे स्थानिवत्सूत्रे द्र० ।
<अतद्व्यावृत्तिः
तद्भिन्ननिवर्तनम् । यथा- योगाचारबौद्धमते-
धर्मः अनीलव्यावृत्तिरूप इति ( दि० १ आत्म० पृ० १००) ।
शिष्टं तु अपोह-शब्दव्याख्याने दृश्यम् ।
<अतलम्
षष्ट्यधिकशतत्रयम् । तथा हि गणकप्रसिद्ध्या कटपयाः वर्गाः । तत्र
वर्णाक्षरसंख्यया संग्रहः । गणकप्रसिद्ध्याकारः शून्यवचनः । टकारा-
षष्ठेन तकारेण षट् संख्या । यवर्गतृतीयेन लकारेण त्रित्वसंख्या। तत्राङ्कानां
वामतो गतिरिति पूर्वोक्तप्रकारेण मेलने अतलशब्दः षष्ट्यधिकशतत्रय-
संख्यामाह । ( पु० चि० पृ० १० )
7
-
<अतिक्रान्तभावनीयः>
योगिविशेषः । ( सर्वद० पृ० ३८४ पातञ्जल०)
०
<अतिदेश:
[ क ] एकत्र श्रुतस्यान्यत्र संबन्धः । यथा स्तोकं पचति मृदु
पचतीत्यादौ स्तोकमृद्वादौ क्रियाविशेषणानां कर्मत्वमित्याद्यनुशासनेन
कर्मत्वातिदेशः ( ग० व्यु० १ ) । यथा वा व्याकरणे स्थानिवदिति
सूत्रेण भव्यमित्यत्र भू इत्येतस्मिन्नस्वृत्तिधातुत्वातिदेशैः ।
१ अत्र दृष्टसागरमानय चित्रगुमानयेत्यादौ च गुणीभूतसमुद्रगवादीनामानयनेन्व-
यासंभवेनातद्गुणसं विज्ञानोयं बहुव्रीहिरिति । २ स चातिदेशः षोढा-शा-
स्वातिदेशः कार्यातिदेशः निमित्तातिदेशः व्यपदेशातिदेशः तादात्म्यातिदेशः
रूपातिदेशश्चेति । उदाहरणानि शब्दकौस्तुभे स्थानिवत्सूत्रे द्र० ।