न्यायकोशः /60
This page has not been fully proofread.
६
न्यायकोशः ।
[ख] परिषदा विज्ञातस्य वादिना त्रिरभिहितस्याप्यविज्ञानम् । इदं च
किं वदसि बुध्यत एव नेत्याद्याविष्करणेन ज्ञातुं शक्यत इति
(गौ० वृ० ५/६०) । अत्र अविज्ञानमित्यस्यार्थस्तु वाक्यार्थस्या-
बोध इति । ( नील० )
अणुः --भोक्तुमशक्या अणवः । ( सर्वद० पृ० ७२ आर्हत० )
अणुत्वम् – परिमाणविशेषः । स च परमाणौ यणुकेच तिष्ठति ।
अतद्गुण संविज्ञान:- ( बहुव्रीहिसमासः ) [ क ] यो बहुव्रीहिः स्वार्थस्या-
न्वयिनि स्वार्थघटकस्याप्यर्थस्यान्वयबोधनेऽसमर्थः स इति प्राचीना
आहुः । यथा दृष्टसागरमानय चित्रगुमानयेत्यादौ च । ( श० प्र० )
[ख ] यत्र स्वार्थस्योपलक्षणतया विधेयान्वयः सः । यथा - चित्रगुरि-
त्यादौ । (त० प्र० ख० ४ पृ० ४९ )
अतव्यावृत्तिः– तद्भिन्ननिवर्तनम् । यथा- योगाचारबौद्धमते-
नीलत्वादिरूपो
धर्मः अनीलव्यावृत्तिरूप इति ( दि० १ आत्म० पृ० १००) ।
शिष्टं तु अपोह-शब्दव्याख्याने दृश्यम् ।
अतलम् – षष्ट्यधिकशतत्रयम् । तथा हि गणकप्रसिद्ध्या कटपयाः वर्गाः । तत्र
वर्णाक्षरसंख्यया संग्रहः । गणकप्रसिद्ध्याकारः शून्यवचनः । टकारा-
षष्ठेन तकारेण षट् संख्या । यवर्गतृतीयेन लकारेण त्रित्वसंख्या। तत्राङ्कानां
वामतो गतिरिति पूर्वोक्तप्रकारेण मेलने अतलशब्दः षष्ट्यधिकशतत्रय-
संख्यामाह । ( पु० चि० पृ० १० )
7
-
योगिविशेषः । ( सर्वद० पृ० ३८४ पातञ्जल०)
०
अतिदेश:- [ क ] एकत्र श्रुतस्यान्यत्र संबन्धः । यथा स्तोकं पचति मृदु
पचतीत्यादौ स्तोकमृद्वादौ क्रियाविशेषणानां कर्मत्वमित्याद्यनुशासनेन
कर्मत्वातिदेशः ( ग० व्यु० १ ) । यथा वा व्याकरणे स्थानिवदिति
सूत्रेण भव्यमित्यत्र भू इत्येतस्मिन्नस्वृत्तिधातुत्वातिदेशैः ।
१ अत्र दृष्टसागरमानय चित्रगुमानयेत्यादौ च गुणीभूतसमुद्रगवादीनामानयनेन्व-
यासंभवेनातद्गुणसं विज्ञानोयं बहुव्रीहिरिति । २ स चातिदेशः षोढा-शा-
स्वातिदेशः कार्यातिदेशः निमित्तातिदेशः व्यपदेशातिदेशः तादात्म्यातिदेशः
रूपातिदेशश्चेति । उदाहरणानि शब्दकौस्तुभे स्थानिवत्सूत्रे द्र० ।