2023-10-29 11:17:26 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

Ca
 
५४४
 
न्यायकोशः ।
 
प्रकृतिनिपाताभ्यां भिन्नो यादृशार्थे शक्तिनिरूदलक्षणान्यतरात्मकप्रशस्त-

वृत्तिमान् यादृशः शब्दः स
 
तादृशार्थकप्रत्ययः । यथा एकत्वार्थकाः

सुबादयः प्रत्ययाः । शक्त्या निरूढलक्षणया च गुणगुणिनोः स्थिति -

प्रस्थानयोश्च बोधका अपि शुक्लस्थाप्रभृतयः प्रकृतिभ्यो न भिन्नाः

तथा शक्त्या समुच्चयादिप्रतिपादका अपि चादयो न निपातेभ्यः भिन्नाः

इति तत्र नातिव्याप्तिः (श० प्र० श्लो० ८ टी० पृ० १० ) । [ख]

यः शब्दः शब्दान्तरार्थाविशेषिते यादृशस्वार्थे धर्मिणि तिर्थस्यान्वयबोधने

स्वरूपायोग्यः स वानिभादिशब्देभ्यो भिन्नस्तादृशार्थे प्रत्ययः । यथा

पचतीत्यादौ तिङाम् पाचकोस्तीत्यादौ कृताम् काश्यपिरित्यादौ च

तद्धितानाम् प्रकृत्यर्थावच्छिन्न एव स्वार्थे कृत्यादौ तिङर्धस्य वर्तमानत्वा-

देर्बोधकत्वम् न तु तदनवच्छिन्ने इति न तेष्वप्रसङ्गः ( अव्याप्तिः ) ।

चैत्रोस्तीत्यादावर्थान्तरानवच्छिन्ने स्वार्थे नाम्नां तिर्थान्वयबोधकत्वम् ।

एवम् यजेत स्थीयेत इत्यादौ यजादिधातूनाम् तिर्थान्वयबोधकत्वम् इति

तत्र नातिव्याप्तिः । निभनिपातादिकस्तु शब्दान्तरार्थानवच्छिन्ने सदृशसमु

चयादिस्वार्थे तिर्थस्यान्वयं प्रति स्वरूपायोग्योपि निभादिरेव न तु तद्भिन्नः

इति न तत्र प्रसङ्गः ( श० प्र० श्लो० ९ टी० पृ० १२) । [ग]

स्व स्वप्रकृति एतदन्यतरार्थप्रत्यायको यः स प्रत्ययः इति नागोजीभट्टादयः

आहुः । अयं भावः । बहुजादेर्निरर्थकतया मुख्य प्रत्ययत्वाभावादेव

पूर्वस्वरूपावधित्वनिवेशेपि न दोषः । अत एवोक्तं हरिणा यः स्वेतरस्य

यस्यार्थे स्वार्थस्यान्वयबोधने । यदपेक्षस्तयोः पूर्वा प्रकृतिः प्रत्ययः परः ॥

इति ( वाक्यप० ) । परत्वेन विधीयमानत्वमेव प्रत्ययत्वमिति केचि

च्छाब्दिका वदन्ति । तन्न योग्यम् । बहुजादावव्याप्तिप्रसङ्गात् ३

शब्दशक्ति प्रकाशिकाकृत आहुः । [घ ] अन्ये तु शाब्दिकाः प्रकृति-

रत्न० ) ( वाच० ) । अत्र महाभाष्यम् स्वीयमर्थ प्रत्याययति इति ।

मवधीकृत्य विधीयमानः स्वार्थबोधकः शब्दविशेष: इत्याहु: ( शब्दार्थ-

अत्रावधिश्च पूर्वापररूपो प्रायः । तेन बहुचि बहुगुडो द्राक्षा इत्यादौ

नाप्रसङ्गः । प्रत्ययश्चतुर्विधः । विभक्तिः धात्वंशः तद्धितः कृत् इति ।
 
7
 
इति