2023-10-29 11:16:56 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
५४३
 
प्रत्यभिज्ञा -
<प्रत्यभिज्ञा>
( प्रत्यक्षम् ) [क] अतीतावस्थावच्छिन्नवस्तुग्रहणम् । प्रत्य-

भिज्ञाप्रत्यक्षे हि अतीतापि पूर्वावस्था स्फुरत्येव ( त० भा० प्रमाण ०

शब्द० पृ० १९ ) । प्रत्यभिज्ञाशब्दस्येत्थं व्युत्पत्तिः । प्रतिगता अभि-

ज्ञाम् इति प्रत्यभिज्ञा (वाच० ) । तल्लक्षणं तु इन्द्रिय सहकृतसंस्कार-

जन्यज्ञानत्वम् ( ल० व० ) ( न्या० सि० दी० पृ० ५९ ) । प्रत्य-

भिज्ञायामुपनीततत्तादिविषयकत्वरूपमुपनीतभानमानुभाविकम् इति बोध्यम्

( दीधि० बाघ ० ) । प्रत्यभिज्ञायामात्मा विषयः इति सिद्धान्तः । माया-

वादिनस्तु अन्तःकरणविशिष्ट एवात्मा प्रत्यभिज्ञाविषयः न तु केवल-

श्चिदात्मा इत्याहुः । अत्र प्राभाकराः सोहम् इति प्रत्यभिज्ञायां विषय-

त्वेनाश्रयो नात्मा सिध्यति । किं तर्हि सोयं घटः इत्यादिप्रत्यभिज्ञा-

श्रयत्वेन इत्यमन्यन्त (विवरणप्रमेयसंग्रहे ) ( वाच ० ) । [ख] अती-

तावस्थावच्छिन्नस्य वर्तमानमेदावगाहि प्रत्यक्षम् ( प० च० ) । सा

च यथा स एवायं घटः यो मया पूर्वमुपलब्धः इत्याकारिका

पूर्वावस्थानुभवजनितसंस्कारसहकृतेन्द्रिय प्रभवा प्रत्यभिज्ञा (त० भा०

हेत्वाभा० पृ० ५० ) । यथा वा स एवायं चैत्रः इति प्रतिसंधानेना-

भिमुखीभूते वस्तुनि ज्ञानम् ( सर्व० पृ० १९३ प्रत्यभि० )। अत्र

तद्देशकालवृत्तित्वरूपतत्तासंस्कारात् स एवायं घटः इति प्रत्यभिज्ञा

जायते इति बोध्यम् (नील० १ पृ० १४ ) । [ग] तदनुगृहीत -

स्तदनुसंधानविषयः प्रत्ययस्तद्भावविषयः प्रत्यभिज्ञानम् ( न्या० वा० ) ।

 
<
प्रत्यभिज्ञाशास्त्रम्>
सूत्रं वृत्तिर्विवृतिर्लध्वी बृहतीत्युभे विमर्शिन्यौ । प्रकरण-
-

विवरणपञ्चकमिति शास्त्रं प्रत्यभिज्ञायाः ॥ (सर्व० सं० पृ० १९१ प्रत्य० ) ।

 
<
प्रत्ययः - >
१ बुद्धिवदस्यार्थोनुसंधेयः । सांख्यास्तु स्रक्चन्दनादिविषय-

निकर्षादिन्द्रियप्रणाडिकयैव सुखदुःखाद्याकारो बुद्धेरेव यः परिणाम-

विशेषः ( महत्तत्त्वधर्मः ) स प्रत्ययः इत्याहुः (वै० उ० ८।१।१ ) ।

१२ अधीनः । ३ शपथः । ४ विश्वासः । ५ निश्चयः । ६ हेतुः ।

१७ छिद्रम् । ८ आचारः । ९ ख्यातिः । १० स्वादु । ११ सहकारि-

कारणम् ( वाच ० ) । १२ (सार्थकः शब्दः ) [क] यादृशार्थक-

 
-
 
-