2023-10-29 11:16:04 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

५४२
 
न्यायकोशः ।
 
कल्पकज्ञानद्वारा करणम् । तथाहि । यदा निर्विकल्पकज्ञानानन्तरं सवि-

कल्पकज्ञानमुत्पद्यते तदा इन्द्रियार्थसंनिकर्षः करणम् । निर्विकल्पक-

ज्ञानमवान्तरव्यापारः । सविकल्पकं ज्ञानं फलम् इति ( त० भा०

प्रमाण० पृ० ६) । तृतीयं च निर्विकल्पकज्ञानम् । तच्च सविकल्पक-

ज्ञानानन्तरं यत्र हानोपादानोपेक्षाबुद्धयो भवन्ति तत्र सविकल्पकज्ञानं

द्वारीकृत्य करणम् ( सि० च० १ पृ० २१ ) । तथाहि । यदा सवि-

कल्पकज्ञानानन्तरं हानोपादानोपेक्षाबुद्धयो जायन्ते तदा निर्विकल्पकं

ज्ञानं करणम् । सविकल्पकज्ञानमवान्तरव्यापारः । हानादिबुद्धयः फलम्

( त० मा० प्रमाण० पृ० ६) इति । अत्राहुः । सर्वत्रापि द्रव्यगुणकमो-

दिप्रत्यक्षे इन्द्रियमेव करणम् । विषयेन्द्रियसंयोगः इन्द्रियमनः संयोगो वा

व्यापारः । द्रव्यगुणकमोदिप्रत्यक्षं फलम् इति । तत्र षडिधद्रव्यप्रत्यक्षे

त्वङ्मनः संयोगो महत्त्वं च कारणम् । तत्र द्रव्यचाक्षुषप्रत्यक्षे तु महत्त्वम्
 

अनेकद्रव्यत्वम् उद्भूतरूपम् प्रकाशश्च
 
कारणम् ( प्रशस्त ० गु०
 

पृ० २५ ) । अत्र च येनेन्द्रियेण यद्वस्तु गृह्यते तेनेन्द्रियेण तद्ग

सामान्यं तत्समवायस्तदभावश्च गृह्यते इति नियमो ग्राह्यः ( प्र० प्र० ) ।
 

तत्रेन्द्रियात्मकं प्रत्यक्षं द्वेधा। द्रव्यग्राहकम् द्रव्याग्राहकं च ।
 
आद्यम्
 

पृ० ५ ) । यत् संबद्ध सत् तदाकारोल्लेखि विज्ञानम् तत् प्रत्यक्षम्

चक्षुस्त्वङ्मनांसि । द्वितीयम् घ्राणम् रसनम् श्रवणम् इति (न्या० म० १

इति सांख्या आहुः ( सांख्य० सू० ११८९) । ३ प्रत्यक्षात्मकज्ञान-

विषयः । यथा वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वावत् ( त० दी०१

पृ० ९ ) इत्यादौ । अत्र प्रत्यक्ष इत्यस्य बहिरिन्द्रियजन्य प्रत्यक्षविषयः
.

इत्यर्थः (नील० १ वायुनि० पृ०९) । मायावादिमते अत्रव्य-

प्रत्यक्षलक्षणं च स्वाकारवृत्त्युपहितप्रमातृचैतन्यसत्तातिरिक्तसत्ताकत्व-

शून्यत्वे सति वर्तमानयोग्यत्वम् ( वेदा० प० परि० १ पृ० १४ ) "

 
<
प्रत्यनुमानम्>
प्रतिपक्षानुमानम् । यथा पर्वतो वह्निमान् धूमात् इति

वादिनोक्ते पर्वतो वह्यभाववान् पाषाणमयत्वात् इति प्रतिवादिनः
 
Gulmin
 

प्रतीपानुमानम् ।