2023-10-29 11:08:53 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
संयुक्तत्वम् । यथा देवदत्तो जीवनमरणान्यतरप्रतियोगी प्राणित्वान्मद्व-

दित्यत्र जीवनप्रतियोगित्वम् ( दीधि० बाघ० २ पृ० २३ ) ( चि०२

पृ० ६८) इत्यादौ आत्मनो जीवनस्य मरणस्य वा प्रतियोगित्वम् ।

अत्र आत्मशरीर विभागस्य चरमप्राणशरीरसंयोगध्वंसस्य वा मरणरूपत्वे

स्वं विभाग: ध्वंसो वा । तदाश्रयः शरीरम् । तत्संयुक्तत्वमात्मनः इति

लक्षणसंगतिः। जीवनप्रतियोगित्वं तु सदेहात्ममनःसंयोगस्य जीवन

रूपत्वे स्वीकर्तव्ये तादृशसंयोगानुयोगित्वमेवात्मनः प्रतियोगित्वम् इति

विज्ञेयम् ।
 

 
<
प्रतियोगितावच्छेदकः - >
येन रूपेण ( धर्मेण ) यस्याभावादौ प्रतियोगिता

बोध्यते स धर्मः । यथा घटाभावे घटस्य घटत्वरूपेण प्रतियोगिता

बोध्यते । अतस्तत्र घटत्वं प्रतियोगितावच्छेदकम् । स च धर्मः कचि

देकः क्वचिदनेकश्च । तत्र वह्निर्नास्तीत्यादौ वह्नित्वमेकम् । महानसीय-

वह्निर्नास्तीत्यादौ महानसीयत्वं वह्नित्वं चेत्युभयम् । घटपटोभयं नास्ती-

तु घटत्वम् पटत्वम् उभयत्वं चेति त्रयम् इत्यादिकमनेकम् ।

संबन्धोपि प्रतियोगितावच्छेदको भवति । स च येन संबन्धेन प्रति-

"योगिताया अभावांश भानम् तादृशः संबन्धः । यथा संयोगेन घटो

नास्ति इत्यादौ संयोगेन घटस्याभावांशे प्रतियोगिताभानम् इति तत्र

संयोगसंबन्धः प्रतियोगितावच्छेदकसंबन्धः । एवम् साध्यतावच्छेदक

संबन्धः पक्षतावच्छेदकसंबन्धः आधेयतावच्छेदकसंबन्धश्च इत्यादिक
 
त्यादौ
 

मूह्यम् । अधिकं चावच्छेदकशब्दे दृश्यम् ।
 

 
<
प्रतिरुद्धः - >
१ प्रकरणसमशब्दवदस्यार्थोनुसंधेयः (ता० २० लो० ८३ ) ।
 

२ प्रतिरोधकर्मा । यथा साध्यविरोध्युपस्थान

प्रतिरुद्धकार्यकलिङ्गत्वम् ( चि० २ सत्प्र० पृ० ९४ ) इत्यादौ ।
 
<
प्रतिरोधः - >
१ सत्प्रतिपक्षदोषः । यथा पक्षसाध्यसाधनाप्रसिद्धिस्वरूपा
प्रतिरुद्धकार्यकलिङ्गत्वम् ( चि० २ सत्प्र० पृ० ९४ ) इत्यादौ ।

सिद्धिबाधप्रतिरोधानां निरासः ( दीधि ० ) इत्यादौ । २ प्रतिबन्धः

कार्यविशेषानुत्पादो वा । ३ तिरस्कारः । ४ हठचौर्यम् इति व्यवहारज्ञा
 

आहुः (वाच० ) ।
 
-