This page has not been fully proofread.

न्यायकोशः ।
 
[घ ] स्वार्थापरित्यागेन परार्थलक्षणा ।
 
प्र
 
[ ङ ] यत्र स्वार्थस्य विशेष्यतया क्रियान्वये प्रवेशः सा । ( त० प्र०
 
ख० ४ पृ० ४४ )
 

 
२ ( शक्तिः) अवयवार्थसंवलितसमुदायार्थबोधकत्वमजहत्वार्थत्वम् ।
उदाहरणं राजपुरुष इति ( ल० म० पृ० ३७) इति वैयाकरणाः । अत्रेदं
बोध्यम् । वैयाकरणमते वृत्तिर्द्विधा शक्तिर्व्यञ्जना च । शक्तिश्च द्विधा प्रसिद्धा-
प्रसिद्धा च । प्रसिद्धा च त्रिधा रूढि: योगो योगरूढिश्च । आद्योदाहरणा-
नि― घटः पटः मणिः रथंतरम् (साम) शुश्रूषा (सेवा) । इयमेव जहत्वा-
र्थेत्युच्यते । द्वितीयोदाहरणानि पाचकः पाठक इत्यादीनि । तृतीयोदाहर-
णानि पङ्कजम् राजपुरुष इत्यादीनि । इयमेवाजहत्स्वार्थेत्युच्यते । कचिच्च
तात्पर्यग्राहकवशात्केवलरूढ्यर्थस्य केवलयोगार्थस्य बोधः । यथा - अश्व-
गन्धादिपदमोषधिविशेषे रूढम् अश्वसंबन्धिगन्धवत्तया वाजिशालाबोघे
यौगिकम् । अत एव यौगिकरूढमित्युच्यते । अप्रसिद्धा शक्तिरेव नैया-
यिकादिभिर्लक्षणेति व्यवयिते । एवं च वैयाकरणमते शक्यपेक्षया
लक्षणावृत्तिः पृथङ्नास्त्येव । व्यञ्जना च द्विधा गूढव्य नवागूढव्यङ्गया च ।
अजहल्लक्षणा - नैयायिकमतेजहत्स्वार्थावदस्यार्थोनुसंधेयः ।
अजीव: – अबोधात्मकं सर्व वस्तु । ( सर्वद० पृ० ६७ आर्हत० )
 
-
 
1
 
अज्ञानम्
– १ ज्ञानाभावः । २ अविद्या । तत्रोक्तम् - अनादि भावरूपं
यद्विज्ञानेन विलीयते । तदज्ञानमिति प्राज्ञा लक्षणं संप्रचक्षत इति
मायावादिवेदान्तिनो वदन्ति । ( सर्वद० पृ० ९३ )
 
-
 
अज्ञानम् - (निग्रहस्थानम् ) [क] अविज्ञानं चाज्ञानम् (गौ०५।२।१८) ।
विज्ञातार्थस्य परिषदा प्रतिवादिना त्रिरभिहितस्य यदविज्ञानं तदज्ञानं निप्र-
हस्थानमिति । अयं खल्वविज्ञाय कस्य प्रतिषेधं ब्रूयादिति । ( वात्स्या ०
५/२/१८ )
 
१ अत्राज्ञाने भावत्वसाधकं प्रमाणमनुमानम् । तच्च विवादास्पदं प्रमाणज्ञानं स्वप्रा-
गभाव व्यतिरिक्तस्वविषयावरणस्व
निवर्त्य स्वदेशगत वस्त्वन्तरपूर्वक मप्रकाशितार्थप्र
काशकत्वादन्धकारे प्रथमोत्पन्न प्रदीपप्रभावदिति ( सर्वद० पृ० ९६ ) । एतत्प-
दकृत्यं तु तत्रैव टीकायां द्रष्टव्यम् ।