2023-10-29 11:07:51 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
५३५
 
इति
 
तेनैवोपपत्तौ न प्रतियोगित्वरूपातिरिक्तपदार्थकल्पना इति । अत्रो-

पयोगित्वेनाधिकमुच्यते । प्रतियोग्यभावान्वययोस्तुल्ययोगक्षेमता

न्यायः । तदर्थश्च यादृशसमभिव्याहारस्थले येन संबन्धेन यद्धर्मिणि येन

रूपेण यद्वत्त्वं नञसत्त्वे प्रतीयते तादृशस्थले नञा तद्धर्मिणि तादृश-

संबन्धावच्छिन्नतादृशधर्मावच्छिन्न प्रतियोगिताकतदभाव: प्रत्येतव्यः (ग०

व्यु० का० १ ) । यथा पीतघटे घटो न नीलः इति वाक्यं प्रयुज्यते ।

तंत्र नञ्विनिर्मोकदशायां घटो नीलः इत्यत्र येन संबन्धेन ( तादात्म्य-

संबन्धेन ) नीलपदार्थो घटे प्रतीयते तेनैव संबन्धेन नीलप्रतियोगिका-

भावः घटो न नीलः इति वाक्यात्प्रयेतव्यः इति ( कृष्ण ० ) । एवम्

अत्यन्ताभावस्थलेपि भूतले घटो नास्ति इत्यादौ पूर्वोक्तो न्यायः संयोज-

नीयः । केचित्तु प्रतिकूलसंबन्धवत्वम् प्रतियोगित्वम् । यथा घटाभावस्य

संबन्धः स्वरूपसंबन्धः तस्य प्रतिकूलः संयोगः तद्वत्त्वात् घटो घटा-

भावस्य प्रतियोगी भवति इत्याहु: । अखण्डो धर्मविशेषः प्रतियोगिता

इति संप्रदाय: (मू० म० १) । अन्योन्याभावविरहात्मत्वम् इत्यप्यन्य

आहुः (वै० उ० ९/११८ ) ( न्या० सि० दी० पृ० ५६ ) । अत्रा-

चार्या आहुः अभावविरहात्मत्वं वस्तुनः प्रतियोगिता ( कु० स्त० ३
 
श्लो०
 

(० १ ) इति । एतन्मते इदं च वस्तुनिष्ठमभावनिरूपितं प्रतियोगित्वम्

इति विज्ञेयम् । अत्र च यस्य पदार्थस्य अभावः तत्त्वं प्रतियोगित्वम्

इति लौकिकजना वदन्ति । २ वित्तिवेद्यत्वम् ( चि० ३) । यथा

चन्द्रवन्मुखमित्यादौ चन्द्रस्य सादृश्यप्रतियोगित्वम् । ३ अन्वयित्वम्

( अन्वयप्रतियोगित्वम्) । तच्च स्वरूपसंबन्धविशेषः । यथा चैत्रस्य

पुत्र इत्यादौ षष्ठ्यन्तार्थस्य प्रतियोगित्वम् । यथा वा संयोगेन घटव-

द्भुतलमित्यादौ घंटे भूतलानुयोगिकसंयोगसंबन्ध

विशिष्टबुद्धौ प्रकारतया भासमानस्य घटस्य संसर्गप्रतियोगित्वम् इति

विशेष्यतया भासमानस्य तु भूतलस्य अनुयोगित्वम् इति च ज्ञेयम् ।

४ निरूपकत्वम् । यथा प्रकारताप्रतियोगित्वमनुमितौ (ग० सामा०

अत्र वदन्ति इति कल्पे ) । यथा वा विलक्षणविषयताप्रतियोगित्वं

संशयत्वम् इत्यादौ ( ग० सत्प्र० अर्वाचीन० पृ० १४) । ५ स्वाश्रय-