This page has not been fully proofread.

५३४
 
न्यायकोशः ।
 
प्रतिबन्धिः (धी ) – [ क ] — प्रतिबन्दिवदस्यार्थोनुसंधेयः । [ ख ] प्र-
तिवादिमते निष्टान्तरप्रसञ्जनम् । यथा आद्ये प्रतिबन्धिमाह ( गौ० दृ०
२।२।३४ ) इत्यत्र । अत्राधिकं तु प्रतिबन्दिशब्देवलोकनीयम् ।
प्रतिबिम्बनम् – १ अनुकरणम् । यथा दृष्टान्तस्तु सधर्मस्य वस्तुनः प्रति-
बिम्बनम् (सा० द० परि० १० श्लो० ६९८ ) इत्यादौ । २ बिम्बानु-
रूपप्रतिच्छायाभवनम् । यथा मायावादिवेदान्तिमते जीवेश्वरयोर्बिम्ब-
प्रतिबिम्बभावः इत्यादौ । अत्राधिकं तु सिद्धान्तलेशे द्रष्टव्यम् ।
 
-
 
प्रतिभा—(बुद्धिः ) १ [ क ] स्फूर्त्याख्यो बुद्धिविशेष: (दि० १ मङ्ग०
पृ० ८)। यथा समाप्तिस्तु बुद्धिप्रतिभादिकारणकलापात् (मु० १
मङ्गल ० ) इत्यादौ । [ख] प्रज्ञा नवनवोन्मेषशालिनी प्रतिभा मता
( रुद्र० ) । २ दीप्तिः इति केचिदन्ति ।
 
प्रतिभूः– [ क ] प्रति भवति तत्कार्ये तद्वद्भवतीति प्रतिभूः ( मिता•
अ० २ श्लो० १० ) ( जामीन इति प्र० ) । [ख ] धनिकाधम -
योरन्तरे यस्तिष्ठति विश्वासार्थं स प्रतिभूः (सिद्धान्तकौमुदी पृ० ३१४) ।
 
प्रतियोगः – १ विरोध: । २ विरुद्धसंबन्धः ।
 
-
 
प्रतियोगिता - १ विरोधित्वम् ( निषेध्यत्वम्) ( न्या०सि० दी० पृ०५६ ) ।
घटाभावस्य घटो विरोधी भवति इति तस्य तथात्वं संपद्यते । तच्च
स्वरूपसंबन्धविशेष: ( दीधि० २) ( त० प्र० ) । यथा घटो नास्ती-
त्यादौ घंटे अभावप्रतियोगितास्ति । अत्र अभावनिरूपिता घटनिष्ठा
• प्रतियोगितास्ति इति तदर्थो ज्ञेयः । अत्रेदमवधेयम् । घटाभावादिबुद्धे-
विशिष्टवैशिष्ट्या वगाहिबुद्धितया अभावबुद्धिर्विशेष्य विशेष
• विशिष्टबुद्धित्वात् संयोगेन घटवद्भूतलम् इत्यादिबुद्धत्
नव्यनैयायिका आहुः । अत्रायं नियमः अभावप्रत्ययो विशिष्टमर्यादां
अभावे घटा दिवैशिष्ट्यबुद्धौ संबन्धतया अतिरिक्तप्रतियोगित्वसिद्धिः इति
नातिशेते इति । श्रीहर्षखण्डनादौ दीधितिकारमते च तस्य स्वरूप-
संबन्धविशेषरूपत्वेन प्रतियोगिस्वरूपत्वमनुयोगिस्वरूपत्वं वा स्वीकार्यम् ।