2023-10-29 05:42:08 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
1-
स्थिते इदमाह यसैन्द्रियकं सामान्यं नित्यम् कामं घटो नित्योस्विति ।

स खल्वयं साधकस्य दृष्टान्तस्य नित्यत्वं प्रसञ्जयन्निगमनान्तमेव पक्षं

17 जहाति । पक्षं जहत्प्रतिज्ञां जहातीत्युच्यते प्रतिज्ञाश्रयत्वात्पक्षस्येति

( वात्स्या० ५/२/२ ) । अत्र वृत्तिः । प्रतिकूलो दृष्टान्तो यस

प्रतिदृष्टान्तः परपक्षः । स्वः स्वीयो दृष्टान्तो यत्र स स्वदृष्टान्तः स्वपक्षः

इति (गौ० वृ० ५/२/२ ) । [ख ] स्वपक्षे परपक्षधर्माभ्यनुज्ञा ।

स्वयं विशिष्याभिहितपरित्यागः इति फलितार्थः ( गौ० वृ० ५/२/२ ) ।

अत्रोच्यते । कथायां यच्च पक्षादि येन निर्दिष्टमादितः । तस्य तेन

पुनस्त्यागः प्रतिज्ञाहानिरुच्यते ॥ इति ( ता० २० परि० ३ लो० १३४ ) ।
 

[ग] प्रतिज्ञातार्थविरुद्धाभ्युपगमः प्रतिज्ञातार्थपरित्यागो वा ( नील ०
 

पृ० ४५ ) । [घ ] विशिष्य प्रतिज्ञातस्य पक्षादेः परित्यागः (दि० १

पृ० २२) । पक्षस्य पक्षत्वेन प्रतिपादनाभावरूपता इति भावः

( राम० १ पृ० २२ ) । यथा शब्दः अनित्यः प्रत्यक्षगुणत्वादिस्यत्र

सोयं गकारः इत्यादिप्रत्यभिज्ञाबलात्परेण बाध उद्भाविते अस्तु

नित्यः शब्दः इति नित्यत्वमङ्गीकुर्वन्वादी शब्दस्यत्वप्रतिज्ञ

( नील० पृ० ४५ ) । सेयं पक्षहेतुदृष्टान्तसाध्यतदन्यहा निभेदात्पञ्चधा

भवति । यथा ( १ ) शब्दः अनित्यः कृतकत्वादित्युक्ते प्रत्यभिज्ञया

बाधित विषयोयमित्युत्तरिते अस्तु तर्हि घट एव पक्षः इति । (२) एवम्

तत्रैव ऐन्द्रियकत्वादिति हेतोरनैकान्तिकत्वमिति प्रत्युक्ते अस्तु कृतकस्वा

दिति हेतुरिति । (३) एवम् पर्वतो वह्निमान् घूमादयोगोलकवदित्युक्ते

दृष्टान्तः साधनविकल इति प्रत्युक्त अस्तु तर्हि महानसवदिति । (४)

एवम् अत्रैव सिद्धसाधने च प्रत्युक्ते अस्तु तर्हि इन्धनवानिति । (५)

अन्यहानिस्तु विशेषणहान्यादिः । यथा तत्रैव नीलधूमादित्युक्ते असमर्थ-

विशेषणत्वेन प्रत्युक्ते अस्तु तर्हि घूमात् इति हेतुः इत्यादि (गौ०

वृ० ५२१२ ) । प्रतिज्ञाहानिश्च अभावे अन्तर्भवतीति विज्ञेयम्
 

( दि० १ पृ० २२) ।
 

 
<प्र
तितत्रम् - >
स्वमतविरुद्धशास्त्रम् ।
 
-
 
A
 
तर्हि