This page has not been fully proofread.

न्यायकोशः ।
 
५२७.
 
गुणव्यतिरिक्तं च द्रव्यं रूपादिभ्यश्चार्थान्तरस्यानुपलब्धिरिति विरुष्यते ।
व्याहन्यते न संभवतीति ( वात्स्या० ५।२।४ ) । [ख] कथायां
स्ववचनार्थविरोधः । यथा पर्वतो वह्निमान् धूमात् यो यो घूमवान् स स
निरग्निः इत्युदाहरणे निरग्निश्चायम् इत्युपनये च प्रतिज्ञाविरोध: ( गौ०
वृ० ५।२।४ ) । अत्रोच्यते । पदयोर्वाक्ययोर्वा य एकवक्तृकयोर्मिथः ।
व्याघातो निग्रहस्थानं स्यात्प्रतिज्ञादिरोधनः ॥ इति ( ता० २० परि०
श्लो०
१० १३६ ) । [ग] खोक्तसाध्यादिविरुद्धहेत्वादिकथनम् । यथा
द्रव्यं गुणभिन्नं रूपादितः पृथक्त्वेनानुपलभ्यमानत्वादिति ( दि० १
पृ० २२) ( नील० पृ० ४५ ) । प्रतिज्ञाविरोधश्च गुणेन्तर्भवतीति
विज्ञेयम् ( दि० १ पृ० २२ ) ।
 
प्रतिज्ञासंन्यासः - ( निग्रहस्थानम् ) [क] पक्षप्रतिषेधे प्रतिज्ञातार्थ-
स्यापनयनं प्रतिज्ञासंन्यासः ( गौ० ५२२१५ ) । पक्षस्य स्वाभिहितस्य
परेण प्रतिषेधे कृते सति तस्परिजिहीर्षया प्रतिज्ञातार्थस्यापनयनमपलापः
इत्यर्थः (गौ० वृ० ५/२/५) । यथा अनित्यः शब्द ऐन्द्रियकत्वादि-
युक्ते परो
ब्रूयात् सामान्य मैन्द्रियकम् न चानित्यम् एवं शब्दोप्यैन्द्रियको
न चानित्य इति । एवं प्रतिषिद्धे पक्षे यदि ब्रूयात् कः पुनराह अनित्यः
शब्दः इति । सोयं प्रतिज्ञातार्थनिहवः प्रतिज्ञासंन्यास इति ( वात्स्या ०
(५/२/५ ) । [ख] खोक्र्ये परेण दूषिते तदपलापः । यथा शब्दः
• अनित्य ऐन्द्रियकत्वादित्युक्ते परेण सामान्ये व्यभिचारमुद्भाव्य दू
खोक्तमपलपति क एवमाह शब्दः अनित्यः इति ( गौ० वृ० ५/२/५)
(दि० ११२२ ) (नील० पृ० ४५ ) ( ता० २० परि० ३ श्लो०
१३७ ) । प्रतिज्ञासंन्यासश्च गुणेन्तर्भवतीति विज्ञेयम् ।
प्रतिज्ञाहानि: - ( निग्रहस्थानम् ) [क] प्रतिदृष्टान्तधर्माभ्यनुज्ञा -
टान्ते प्रतिज्ञाहानि: ( गौ० ५१२१२ ) । साध्यधर्मप्रत्यनीकेन धर्मेण
प्रत्यवस्थिते प्रतिदृष्टान्तधर्म स्वदृष्टान्तेभ्यनुजानप्रतिज्ञां जहातीति प्रतिज्ञा-
हानि: । निदर्शनम् ऐन्द्रियकत्वादनित्यः शब्दो घटवदिति कृते अपर
आह दृष्टमैन्द्रियकत्वं सामान्ये नित्ये कस्मान तथा शब्द इति प्रत्यव
 
-