2023-10-29 05:40:25 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

५२६
 
न्यायकोशः ।
 

 

 

 
Y
 
मैन्द्रियकं सर्वगतम् । ऐन्द्रियकस्त्वसर्वगतो घट इति धर्मविकल्पात् ।

तदर्थनिर्देश इति साध्यसिद्ध्यर्थम् । कथम् । यथा घटोसर्वगत एवं

शब्दोप्यसर्वंगतो घटवदेवानित्य इति । तत्रानित्यः शब्दतपूर्वा

प्रतिज्ञा। असर्वगत इति द्वितीया प्रतिज्ञा प्रतिज्ञान्तरम् (वात्स्या०५।२।३) ।

[ख] प्रतिज्ञातस्यार्थस्य प्रतिषेधे कृते तद्दूषणोद्दिधीर्षया धर्मस्य धर्मा-

न्तरस्य विशिष्टः कल्पो विकल्पः तस्मात् विशेषणान्तर विशिष्टतया

प्रतिज्ञातार्थस्य कथनम् (गौ० वृ० ५/ २ / ३ ) ( ता० र० परि० ३

श्लो० १३५ ) । प्रतिज्ञातार्थस्येत्युपलक्षणम् हेत्वतिरिक्तार्थस्य इति

तत्त्वम् । तेन उदाहरणान्तरमुपनयान्तरं च प्रतिज्ञान्तरत्वेन संगृहीतं

भवति । अत्र प्रतिषेध इत्यनेन झटिति संवरणे विलम्बेनापि स्वयं दूषणं

विभाव्य विशेषणे न दोषः इत्युक्तम् ( गौ० वृ० ५/२/३ ) ।

[ग] परोक्तदोषोद्दिधीर्षया पूर्वानुक्त विशेषणविशिष्टतया प्रतिज्ञाता-

कथनम् ( दि० १ पृ० २२) ( नील० पृ० ४५) । यथा क्षित्या-

दिकं गुणजन्यं कार्यत्वादित्यत्रा दृष्टजन्यत्वेन सिद्धसाधनोद्भावने सविषयक

इति गुणविशेषणदानम् ( नील० पृ० ४५ ) । इदं च पक्षसाध्य-

विशेषणभेदात्प्रत्येकं द्विविधम् । यथा शब्दः अनित्य इत्युक्ते ध्वनौ बाधेन

परेण प्रत्युक्ते वर्णात्मकः शब्दः पक्ष इति प्रतिज्ञान्तरम् । एवम् पर्वतो

वह्निमान्सुरभिमलिनधूमवत्त्वादित्युक्ते असमर्थविशेषणत्वेन च परेण प्रत्युक्ते

कृष्णागुरुप्रभववह्निमानित्यत्र । एवम् तादृशवहौ साध्ये यः सुरभिमलिन-

धूमवान् स वह्निमान् इत्युदाहरणे न्यूनत्वेन प्रत्युक्ते स तादृशवह्निमानि

त्यत्र । एवमन्यदप्यूह्यम् (गौ० वृ० ५।२।३) । प्रतिज्ञान्तरं च गुणे-

न्तर्भवतीति विज्ञेयम् ( दि० १ पृ० २२ ) ।
 

 

 
<
प्रतिज्ञाविरोधः>
( निग्रहस्थानम् ) [ क ] प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञा •

विरोधः (गौ० ५२४ ) । गुणव्यतिरिक्तं द्रव्यमिति प्रतिज्ञा । रूपा-
..

दितोर्थान्तरस्यानुपलब्धेरिति हेतुः । सोयं प्रतिज्ञाहेत्वोर्विरोधः । कथम् ।

यदि गुणव्यतिरिक्तं द्रव्यं रूपादिभ्योर्थान्तरस्यानुपलब्धिर्मोपपद्यते ।

अथ रूपादिभ्योर्थान्तरस्यानुपलब्धिः गुणव्यतिरिक्तं द्रव्यमिति नोपपद्यते ।