2023-10-17 14:18:58 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 

 
<
अङ्गविधिः>
( विधिः ) गुणविधिः । यथा दना होमं जुहोतीत्यादि ।

 
<
अचित्>
दृश्यम् । ( सर्वद० पृ० ९२ रामानु० )

 
<
अचिरनिर्मथितः>
(अग्निः ) १ चयनकाले निर्मथ्योखासु धृतोऽग्निरचि-
-

रनिर्मथितः । २ सद्य एवालौकिकमथनेन जातोग्निर चिरनिर्मथितः ।

( जै० न्या० अ० १ पा० ४ अधि० १०)
 

 

 
<
अजपादम्>
पूर्वाभाद्रपदा । ( पु० चि० पृ० ३५३ )
 
-
 

 
<
अजहेत्स्वार्था>
१ ( लक्षणा ) [ क ] लक्ष्यतावच्छेदकरूपेण लक्ष्यश-

क्योभयबोधिका । यथा काकेभ्यो दधि रक्ष्यतामित्यत्र काकपदस्य दध्यु-

पघातके लक्षणा । ( न्या० बो० 0 )
 

[ख ] यत्र वाच्यस्याप्यन्वयस्तत्राजहती लक्षणा । यथा छैत्रिणो गच्छ-

न्तीत्यादौ । ( त० दी० ४ )
 

[ग] शक्यलक्ष्योभयवृत्तिना शक्यवृत्तिनैव वा रूपेणानुभावकत्वादजह-

त्स्वार्था । यथा द्रव्यत्वादिना नीलघटत्वादिना च घटपदस्य

लक्षणा । ( श० प्र० )
 

 
१ अत्र अग्निहोत्रं जुहोतीत्यनेन बोधिते होमे दधिरूपो गुणो विधीयत इति

बोध्यम् ।
 

२ अत्र व्युत्पत्तिः - न जहति पदानि स्वार्थं यस्यां सा अजहत्स्वार्था - इति द्रष्टव्या ।

( वै० सा० )
 

३ अत्र काकपदेन दध्युपघातकत्वात्मकलक्ष्यतावच्छेदकरूपेण काकस्तदितरमार्जा-

रादयश्च बोध्यन्ते । तत्र दध्युपघातकेभ्यो दधिरक्षणे तात्पर्यात् ।
 

तिपाद्यसंबन्ध एव लक्षणा - इति मीमांसकमताभिप्रायेणेदमुदाहरणम् । तेन

छत्रिन्नित्यस्य मतुबर्थकेन्प्रत्ययान्ततया पदसमूहरूपत्वेन * वाक्यत्वात् तच्छक्या-

प्रसिद्ध्या शक्यसंबन्धरूपलक्षणाया अभावेपि नैतदुदाहरणासंगतिः । तथा चा-

त्रैक सार्थवाहित्वेन रूपेण छत्र्यच्छत्रिषु गमनकर्तृत्वान्वयः । केचित्तु - छत्रपद-

स्यैकसाथै लक्षणा । तद्धितार्थः संबन्धी । तथा चैकसार्थसंबन्धिनो गच्छन्तीय-

न्वयबोध इत्याहुः । आदिना यष्टीः प्रवेशयेत्युदाहरणं बोध्यम् । ( नील० )

 
*
नैयायिकमते पदशक्त्यैव निर्वाहे वाक्यशक्तिस्तलक्षणा च न स्वीक्रियत इति तात्पर्यम् ।